पृष्ठम्:बृहद्देवता.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 105 - ] BRHADDEVATĀ iii. 136- जग्मुस्वितस्य तं यज्ञं भागांश्च जगृहुः सह ॥ १३६॥ बृहस्पतिस्त्रितस्यैतज् ज्ञानं विज्ञानमेव च । नृचेनान्येन सूक्तस्य जगादर्षिरसाविति ॥ १३७ ॥ द्यावापृथिव्योरीळेति आग्नेयः पाद उत्तरः । आश्विनः सूक्तशेष: स्याद् इदं राज्युषसो स्तुतिः ॥ १३ ॥ इमा रौद्रं परं सौर्य चित्रं पञ्चाश्विनान्यतः । नासत्याभ्यामिति त्वम्त्ये अन्या दुःस्वप्ननाशिनी ॥ १३९ ॥ ऐन्द्रं कवैश्वदेवं च प्रौषसे पृथुरुत्तरे । ऋषिदीनं च भाव्यस्य प्रातरित्यत्र शंसति ॥ १४० ॥ काक्षीवतं कदित्येति यदैन्द्रमुपदिश्यते । परोक्षं वैश्वदेवं तत् प्रदिष्टं स्वरसामसु ॥१४१॥ अधिगम्य गुरोर्विद्यां गइन्स्वनिलयं किल । कक्षीवानध्वनि श्रान्तः सुष्वापारण्यगोचरः ॥ १४२ ॥ तं राजा स्वनयो नाम भावयव्यसुतो व्रजन् । क्रीडार्थ सानुगोऽपश्यत् सभार्यः सपुरोहितः ॥ १४३॥ अथैनं रूपसंपन्नं दृष्ट्वा देवसुतोपमम् । कन्यादाने मतिं चक्रे वर्णगोचाविरोधतः ॥१४४॥ संबोध्यैनं स पप्रछ वर्णगोचादिकं ततः । राजबाङ्गिरसोऽस्मीति कुमारः प्रत्युवाच तम् ॥१४५॥ पुत्रोऽहं दीर्घतमस औचथ्यस्य ऋषेर्नृप । अथास्मै स ददौ कन्या दशाभरणभूषिताः ॥१४६॥ तावतच रथाञ्छ्यावान् वीडङ्गान्वै चतुर्युजः । वधूनां वाहनार्थीय धनकुप्यमजाविकम् ॥१४७ ॥ निष्कारणां वृषभाणां च शतं शतमदात्पुनः । एतदुत्तरसूक्तेन शतमित्यादिनोदितम् ॥ १४ ॥ [36 २७॥ २८ ॥ २९॥