पृष्ठम्:बृहद्देवता.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ iii. 156 शतमश्वाञ्छतं निष्कान रथान्दश वधूमतः । चतुर्युजो गवां चैव सहस्रं षष्ट्युपाधिकम् ॥ १४९ ॥ स्वन याद्भावयव्याद्यः कक्षीवान्प्रत्यपद्यत | प्रतिगृह्य च तुष्टाव प्रातः पित्रे शशंस च ॥१५०॥ A फलप्रदर्शनं तस्य क्रियते प्रायशस्त्विह | A द्वितीयां तु पितापश्यत् सुगुरित्यादिकामृचम् ॥१५१॥ A काक्षीवतं* सर्वमिति भगवानाह शौनकः । A एषा तु दैर्घतमसी सानुलिङ्गा कथं भवेत् ॥१५२॥ A उच्यते प्रातरित्युक्ते सूनोदानेन हर्षितः । A राजष्याशिषमाहाथ सुगुरित्यादिना किल ॥ १५३॥ कर्माणि याभिः कथितानि राज्ञां दानानि चोच्चावचमध्यमानि । नाराशंसीरित्यृचस्ताः प्रतीयाद् याभि स्तुतिदीशतयीषु राज्ञाम् ॥१५४॥ पञ्चामन्दान्भावयव्यस्य गीता जायापत्योः संप्रवादो हृचेन । संप्रवाद रोमशयेन्द्रराज्ञोर् एते ऋचौ मन्यते शाकपूणिः ॥ १५५ ॥ इन्द्रेण जायापत्योश्चेतिहासं वृचेऽस्मिन्मन्यते शाकटायनः । प्रादात्सुतां रोमशां नाम नाम्ना बृहस्पतिभवयव्याय राज्ञे ॥१५६ ॥ बृहस्पतिभावयव्याय राज्ञे ॥ ३१॥ ॥ इति बृहद्देवतायां तृतीयोऽध्यायः ॥ 37] [-RV. i. 126 ३०॥