पृष्ठम्:बृहद्देवता.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 126–] BRHADDEVATā iv. 1 — [38 ततस्तमर्थ हरिवान्विदित्वा प्रियं सखायं स्वनयं दिदृक्षुः । अभ्याजगामाशु शचीसहायः प्रीत्यार्चयत्तं विधिनैव राजा ॥ १ ॥ अभ्याजगामाङ्गिरसी च तत्र हृष्टा तयोः सा चरणौ ववन्दे । इन्द्रः सखित्वादथ तामुवाच रोमाणि ते सन्ति न सन्ति राज्ञि ॥ २ ॥ सा बालभावादथ तं जगाद उपोप मे शक्र परामृशेति । तां पूर्वया सान्त्व्य नृपः प्रहृष्टो अन्ववजत्साथ पतिं पतिव्रता ॥ ३ ॥ अथाग्नेये अग्निमित्युत्तरे यं पञ्चैन्द्राणि प्र तदैन्दव्युगच । युवं तमिन्द्रापर्वतौ सह स्तुतौ विन्द्रं मेन इह यास्कः प्रधानम् ॥ ४ ॥ ऋक्षु स्तुतः पर्वतवद्धि वज्जो द्विवत्स्तुतौ चेन्द्रमाहुः प्रधानम् । आ त्वा वायोर्नव पञ्चेन्द्रवाय्वोर् एका वायोरुत्तरं डिप्रधानम् ॥ ५॥ १॥ तत्र पञ्च वरुणमित्रदेवा दिवादिभ्यः कथिताभ्यः परे द्वे । वे वे पदे संस्तुते रोदसी च देवाश्चार्धर्चेन विभक्तमन्यत् ॥ ६॥ मैत्रावरुणं सुषुमेति सूक्तं प्रप्र पौष्णं वैश्वदेवं तृतीयम् । अस्तु श्रौषड् वैश्वदेवं तृतीयं वैश्वदेवं स्याडहुदेवतेषु ॥ ७ ॥ बहुशस्तु वैश्वदेवेषु सन्यृचः पादार्धची हैपदास्त्रैपदाश्च । डिप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः ॥ ॥ वैश्वदेवी मैचावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्रेः । मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान ॥९॥ ऋषीनृषिव स्तौति दध्यङ् ह मेऽस्याम् आत्मानं वा तेषु शंसन्स्वजन्म | तस्मादस्यां विप्रवदन्ति केचिद् इन्द्राग्री तस्यां तु निपातभाजी ॥ १०॥ २ ॥ डावुचथ्यबृहस्पती ऋषिपुत्रौ बभूवतुः । आसीदुचथ्यभाया तु ममता नाम भार्गवी ॥११॥ ॥८॥