RV. i. 170–] BRHADDEVATā iv. 49– निरुप्तं तडविचैन्द्रं मरुझो दातुमिछति ॥४९॥ विज्ञायावेक्ष्य तद्भावम् इन्द्रो नेति तमब्रवीत् । न वो नाद्यतनं ह्यस्ति वेद कस्तद्यदद्भुतम् ॥ ५० ॥ कस्यचित्त्वर्थसंचारे चित्तमेव विनश्यति । किं न इत्यब्रवीदिन्द्रम् अगस्त्यो भ्रातरस्तव ॥ ५१ ॥ मरुद्भिः संप्रकल्पस्व वधीमी नः शतक्रतो । किं नो भ्रातरिति त्वस्याम् इन्द्रो मान्यमुपालभत् ॥ ५२ ॥ अगस्त्यस्त्वरमित्यस्यां क्षुब्धमिन्द्रं प्रशामयत् । प्रादात्संवननं कृत्वा तेभ्य एव च तडविः ॥५३॥ सुते चकार सोमेऽथ तानिन्द्रः सोमपीथिनः । तस्माविद्यानिपातेन ऐन्द्रेषु मरुत स्तुतान् ॥५४॥ प्रीतात्मा पुनरेवर्षिस् तांस्तुष्टाव पृथक्पृथक् | मरुतः प्रति सूक्ताभ्याम् इन्द्रं षड्भिः परैस्तु सः ॥ ५५ ॥ B स्तुतश्चतसृभिश्चेन्द्र स्तुतास इति तैः सह । Bमरुद्भिः सह यत्रेन्द्रो मरुत्वांस्तच सोऽभवत् ॥ ५६ ॥ ऋतौ खातामृषिभाय लोपमुद्रां यशस्विनीम् । उपजल्पितुमारेभे रहःसंयोगकाम्यया ॥५७ ॥ डाभ्यां सा त्वब्रवीदृग्भ्यां पूर्वीरिति चिकीर्षितम् । रिरंसुस्तामथागस्त्य उत्तराभ्यामतोषयत् ॥ ५॥ विदित्वा तपसा सर्वे तयोभीवं रिरंसतोः । श्रुत्वैनः कृतवानस्मि ब्रह्मचार्युत्तमे जगौ ॥ ५९॥ प्रशस्य तं परिष्वज्य गुरू मूर्ध्यवर्जघ्रतुः । स्मित्वैनमाहतुश्चोभाव् अनागा असि पुत्रक ॥ ६० ॥ युवो रजांसीति ततः सूक्तैः पञ्चभिरश्विनौ । अगस्त्य एव तुष्टाव कतरेति परेण तु ॥ ६१॥ [42 १० ॥ ११ ॥
पृष्ठम्:बृहद्देवता.djvu/७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति