—BRHADDEVATā iv. 73 द्यावापृथिव्यौ सूक्तेन आ नो विश्वान्दिवौकसः । पितुमचं समिधाम्यो अग्निमग्ने नयेति च ॥ ६२ ॥ बृहस्पतेरनवाणं कङ्कतोपनिषत्परम् । अपां तृणानां सूर्यस्य केचिदेतां स्तुतिं विदुः ॥ ६३॥ ददर्श तदगस्त्यो वा विषघ्नं विषशङ्कया | अदृष्टाख्यो नष्टरूपः सूक्तस्यान्योऽत्र तु वृचः ॥ ६४ ॥ 43] [-RV. ii. 12 RV.ii. अस्तौद्गृत्समदोऽग्निं त्वं जातवेदस्यमाप्रियः । यज्ञेनाथ समिद्धोऽग्निर् अतोऽग्निं सप्तभिर्हुवे ॥६५॥ संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महवपुः । अदृश्यत मुहूर्तेन दिवि च व्योनि चेह च ॥६६॥ तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ । धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ॥ ६७ ॥ विदित्वा स तयोभीवम् ऋषिः पापं चिकीर्षतोः । यो जात इति सूक्तेन कर्मण्येन्द्राण्यकीर्तयत् ॥ ६॥ उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह । इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ॥ ६९ ॥ निहत्य तौ गृत्समदम् ऋषिं शक्रोऽभ्यभाषत । यथेष्टं मां सखे पश्य प्रियत्वं ह्यागतोऽसि मे ॥ ७० ॥ वरं गृहाण मत्तस्त्वम् अक्षयं चास्तु ते तपः । प्रहस्तं प्रत्युवाचर्षिर् अस्माकं वदतां वर ॥७१॥ तनूनामस्तु चारिष्टिर् वाक् चास्तु हृदयंगमा | सुवीरा रयिमन्तश्च वयं त्वामिन्द्र धीमहे ॥७२॥ इन्द्र त्वां च विजानीमो वयं जन्मनि जन्मनि । त्वद्रतश्चैष मे भावो मापगास्त्वं रथीतरः ॥ १३ ॥ १२ ॥ १३ ॥
पृष्ठम्:बृहद्देवता.djvu/७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति