पृष्ठम्:बृहद्देवता.djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BRHADDEVATā iv. 122 निपातिनौ तु तौ ज्ञेयौ ऐन्द्रापार्वत्यृगुत्तमे । करोति पुत्रिकां नाम यथा दुहितरं तथा ॥ ११० ॥ तस्यां सिञ्चति रेतो वा तच्छासदिति कीर्तितम् । रिक्यस्य दुहितुदीनं नेत्यृचि प्रतिषिध्यते ॥ १११॥ तस्याचाह यवीयांसं भ्रातरं ज्येष्ठ वत्सुतम् । सुदासश्च महायज्ञे शक्तिना गाथिसूनवे ॥११२ ॥ निगृहीतं बलाञ्चेतः सोऽवसीदविचेतनः । तस्मै ब्राह्मीं तु सौरीं वा नाम्रा वाचं ससर्परीम् ॥ ११३ ॥ सूर्यक्षयादिहाहृत्य ददुस्ते जमदग्नयः । कुशिकानां ततः सा वाग् अमतिं तामपाहनत् ॥११४॥ २२॥ उपेति चास्यां कुशिकान् विश्वामित्रोऽनुबोधयत् । लब्ध्या वाचं च हृष्टात्मा तानृषीन्प्रत्यपूजयत् ॥ ११५ ॥ ससर्परीरिति द्वाभ्याम् ऋग्भ्यां वाचं स्तुवन् स्वयम् | स्थिरावित्यनसोऽङ्गान्यनडुहश्च गृहान्व्रजन् ॥ ११६ ॥ ततश्च स्वशरीरेण गृहान्गछन्परीददे । 47] [-RV. iii. 57 पराश्चतस्रो यास्त्वच वसिष्ठद्वेषिण्यः स्मृताः ॥११७॥ विश्वामित्रेण ताः प्रोक्ता अभिशापा इति स्मृताः । डिषद्वेषास्तु ताः प्रोक्ता विद्याश्चैवाभिचारिकाः ॥११८॥ वसिष्ठास्ता न शृखन्ति तदाचार्यकसंमतम् । कीर्तनाच्वापि महादोषश्च जायते ॥ ११९॥ शतधा भिद्यते मूध कीर्तितेन श्रुतेन वा । तेषां बालाः प्रमीयन्ते तस्मात्तास्नु न कीर्तयेत् ॥ १२०॥ विश्वांश्च देवांस्तुष्टाव चतुर्भिरिममित्यृषिः । Bअस्तौविश्वात्मना सर्वान् मन्यमानः परं पदम् ॥ १२१॥ Bदेवानामसुरत्वं तद् एकं महदितीरयन् । २३॥