RV. iii. 58–] BRHADDEVATā iv. 122 – अश्विनौ मित्र ॠभवो धेनुर्मित्र इहेह वः ॥ १२२॥ A वैश्वदेवीति विज्ञेया मैत्री मित्राय पञ्च तु । ऐन्द्रार्भवस्तृचस्त्वत्र आर्भवे सूक्त उत्तमः ॥ १२३॥ Bपूर्वे बृचे निपातीन्द्र उषो वाजेन पञ्चमात् । औषसादुत्तरास्त्वन्ये षट् पृथग्देवतास्तृचाः । ऐन्द्रावरुणः प्रथमो बार्हस्पत्यस्तथापरः ॥ १२४ ॥ पौष्णसावित्रसौम्याश्च मैत्रावरुण उत्तमः । तुष्टाव जमदग्निश्च तेन देवावृतावृधौ ॥ १२५ ॥ RV. iv. देवर्षिपितृपूजार्थं पपाचान्त्राणि यच्छुनः | यस्य वै श्येनरूपेण आहरवृत्रहा मधु ॥ १२६ ॥ सोऽग्निं तु पञ्चदशभिर् इन्द्रं षोडशभिः परैः । ऋषिस्त्वामिति तुष्टाव सूक्तैरेति तु गौतमः ॥१२७॥ स भ्रातरमिति त्वासु तिसृष्वग्निर्निपातभाक् । वरुणेनाभिसंस्तौति आहुरन्ये निपातिनम् ॥ १२८॥ लिङ्गोक्तदैवते सूक्ते एके प्रत्यग्निरेव तु । ऋषिर्बोधदिति द्वाभ्यां स्तौति सोमकमेव तु ॥ १२९ ॥ तस्यैव चायुषोऽथीय पराभ्यामश्विनौ स्तुतौ । अञ्जसा न जनिष्येऽहं ब्रुवारणं गर्भमेव तु ॥ १३० ॥ अन्वशादितिः पुत्रम् इन्द्रमात्महितैषिणी । स जातमात्रो युद्धाय ऋषिमेवाजुहाव तु ॥१३१ ॥ योधयन्वामदेवस्तं कृत्वात्मनि बलं तथा । दिनानि दश रात्रीश्च विजिग्ये चैनमोजसा ॥ १३२ ॥ सतं क इममित्यस्यां विक्रीनृषिसंसदि । स्वयं तेनाभितुष्टाव नकिरिन्द्रेति गौतमः ॥ १३३ ॥ तैसु [48 २४ ॥ २५॥ २६॥
पृष्ठम्:बृहद्देवता.djvu/७९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति