पृष्ठम्:बृहद्देवता.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. iv. 33-] BRHADDEVATĀ v. 1- प्रेति पञ्चार्भवं नीणि दाधिकाणि पराण्यतः । ऋग्द्यावापृथिव्यौ स्तौति दाधिक्राणां मुखे तु या ॥१॥ परोक्षैरमुतो वाग्भिर् नामभिश्च स्तुतास्त्रयः | अनिर्वायुश्च सूर्यश्च हंसः शुचिषदित्यृचि ॥ २ ॥ B नियुक्ता सूर्यदेवत्या हंस इत्यैतरेयके | [50 १॥ हे लैन्द्रावरुणे सूक्ते ततस्त्रीण्याविनानि कः ॥३॥ अयं वायो विहीत्येषु वायव्याः सप्त कीर्तिताः । नव चैवेंन्द्रवायव्या इन्द्रस्तिस्रः शतेन षट् ॥ ४ ॥ इदं कथितदेवत्यं यस्तस्तम्भोत्तमो वृचः । स्तुतिरिन्द्रा बृहस्पत्योर् अष्टावेता ऋचः स्मृताः ॥ ५॥ सूक्तं तु तडार्हस्पत्यम् इदमित्यौषसे परे । पुरोधातुः कर्मशंसा स इद्राजोच्यते नृचे ॥ ६ ॥ तत्सावित्रे द्वे तु को वैश्वदेवं मही द्यावापृथिवीयं परं तु यत् । क्षेत्रस्येति तिस्रस्तु क्षेत्रपत्याः शुनं वाहाः शुनदेवी लृगुतरा ॥७॥ वायुः शुनः सूर्य एवात्र सीरः शुनासीरौ वायुसूर्यो वदन्ति । शुनासीरं यास्क इन्द्रं तु मेने सूर्येन्द्रौ तौ मन्यते शाकपूणिः ॥ ७ ॥ गुनासीरौ पञ्चम्यां तु स्तुतौ तौ हे तु सीतायै षष्ठी सप्तमी च । शुनं नः फालाः कृषिं स्तौति पादः शुनं कीनाशाः कृषिजीवान्मनुष्यान् ॥९॥ स्तुतः पादेऽच पर्जन्यस्तृतीये अन्यं * त्वृषिर्धनकामो जगाद । कृषिं वा स्तौति सर्व हि सूक्तं समुद्रादित्यप्रेर्मध्यमस्य ॥ १० ॥ आदित्यं वा ब्राह्मणोक्तं प्रदिष्टम् आग्नेयं वाप्याज्यसूक्तं हि दृष्टम् । अपां स्तुतिं वा यदि वा घृतस्तुतिं गव्यमेके सौर्यमेत वदन्ति ॥ ११ ॥ २ ॥