पृष्ठम्:बृहद्देवता.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

51] —BRHADDEVATĀ v. 24 BV. V. स्वर्भानुदृष्टं सूर्यस्य अपहत्य तमोऽचयः । सप्तविंशतिभिः सूक्तैर् अबोधीत्यग्निमस्तुवन् ॥१२॥ चैवृष्णस्वसदस्युच्च अश्वमेध ऋणंचयः । [-RV. v. 2 स्तूयमानाः परीक्ष्याः स्युर् अनिष्वेते क्वचिन्वचित् ॥ १३ ॥ ऐक्ष्वाकुख्यरुणो राजा चैवृष्णो रथमास्थितः । संजयाहाश्वरश्मींश्च वृशो जानः पुरोहितः ॥१४॥ स ब्राह्मणकुमारस्य रथो गछञ्छिरोऽछिनत् । एनस्वीत्यब्रवीच्चैव स राजैनं पुरोहितम् ॥१५॥ सोऽथवीङ्गिरसान्मन्त्रान् दृष्ट्वा संजीव्य तं शिशुम् । क्रोधात्संत्यज्य राजानम् अन्यदेशं समाश्रितः ॥ १६ ॥ हरोऽप्यनेर्ननाशास्य तस्यापक्रमणादृषेः । अमौ प्रास्तानि हव्यानि न ह्यपच्यन्त कानिचित् ॥ १७ ॥ ततः प्रष्यथितो राजा सोऽभिगम्य प्रसाद्य तम् । आनीत्वा स वृशं जानं पुनरेव पुरोद्धे ॥१॥ स प्रसन्नो वृशोऽन्वैद् धरमग्नेर्नृपक्षये । अविन्दत पिशाचीं तां जायां तस्य च भूपतेः ॥ १९ ॥ निषणः स तथा सार्धम् आसन्द्यां कशिपावपि । तामुपामन्त्रयां चक्रे कमेतं त्वमिति त्वचा ॥२०॥ हर: कुमाररूपेण ध्रुवंस्तामभ्यभाषत । विज्योतिषेति चोक्तायां सहसाग्निरुदज्वलन् ॥२१॥ Bसहमानः समायान्तं प्रकाशं च प्रकाशयन् । पिशाचीमदहत्तां स यत्र चोपविवेश सा ॥ २२ ॥ एष एव परामृष्टो भाल्लविब्राह्मणे वृचः । B निदानसंज्ञके ग्रन्थे छन्दोगानामिति श्रुतिः ॥ २३ ॥ भवेदेव परामर्श: सूक्तस्यास्य व्यपेक्षया । ३॥ ४॥