पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिक । नाधिकरणे स्थानिन्यपि मध्यमः । तिङाच्यकारकयाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमपुरुषः स्यात् । स्वं भवति । भवसि इत्येव वा । अस्मद्युत्तमः । तथाभूतेऽमदि उत्तमपुरुषः स्यात् । अहं भवामि । भवामि इत्येव वा। शेषे प्रथमः । मध्यमोमयोरविषये प्रथ- मपुरुषः स्यात् । स भवति । केवलं भवति इति वा । तिदरशित्सार्वधातुकम् । तिङः शितश्च धात्वधिकारोक्ता एत संज्ञाः स्युः । कर्तरि शप् । कथं सायंधतुकं प्रत्यये परे धतुभ्यः शष् स्यात् । शषावितौ । ‘अ’ मात्रं शिष्यते । यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽअम् । यः प्रत्ययो यस्मा क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंशं स्यात् । भवामि भवि प्यामि इत्यादौ केवलं धातुः, विकरणप्रत्ययविशिष्ट 'भव’ इत्यादयश्च अङ्क- संज्ञाः स्युः । सार्वधातुकार्धधातुकयोः । अनयोः परयोः इगन्ताङ्गस्य गुणः स्यात् । ‘नी "=नर्थेति । नेष्यंति । आर्धधातुकं शेषः । तिङ्- शिश्नयोऽग्नयः धातोरिति विहितः प्रत्ययः आर्धधातुकसंज्ञः स्यात् । पुग न्तलघूपधस्य च । पुगन्तैस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्व धातुकार्धधातुकयोः । ‘बुध्’ बोचूंति । बोधिष्यति । अलोन्यापूर्व उपधा । अन्याद्वर्णात्पूर्वो वर्णः उपधासंज्ञः स्यात् । ‘बुध्’ इत्यत्र उकार उपधा । अत्र प्रथमं विकरणप्रत्ययार्दाश्चत्वारो लकाराः, ततस्तदनङ्कः षड् इत्येवं क्रमेण दश लकाराः कथ्यन्ते । १. सार्वधातुके शपि परे इमन्तरङ्गगुणस्योदाहरणम् ॥ २. आर्धधातुके ‘स्प'। प्रत्यये परे इगन्ताङ्गुणस्योदाहरणम् । ३ अर्तिह्लीरी-त्यादिना विंधथि भान: ‘पु३ ’। ४. लयूषधगुणस्येदहरणम् ।