पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिका १७ अथ सन्नन्तः। धातोः कर्मणः समानकर्तृकाद्च्छायां वा । इषिकर्मभूत- व्यापारवाचकाद्धातोः सन् प्रत्ययो वा स्यात् इच्छायाम् । आर्धधातुकं शेषः (पृ० ३) । इति सन आर्धधातुकत्वम् । आर्धधातुकस्येडुलादेः । (५० ६) इति इटि, ‘इस’ इतेि भवति । पठितुमिच्छति इत्यर्थे पद्म इस इति स्थिते सन्यङोः । सन्नन्तस्य यङन्तस्य च प्रथमैकाचो दो स्तः। अजादेस्तु द्वितीयस्य । लिटि उक्ताः सर्वेऽपि विधयोऽत्र ग्राह्यः । पद्म पञ्पपठ्"इस इयत्र सन्यतः । अभ्यासस्यात इकारः स्यात्सनि । पिपठिस, षत्वं “पिपठिषु' इत्यङ्गम्+ति=पिपठिषति । पवितुमिच्छति इति वाक्यं वा के पूर्ववत्सनः । सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्या दमनेपदं स्यात्। सनः पूर्वो धातुः परस्मैपदं चेत् सन्नन्तात्परस्मैपदं भवति । अथ यङन्तः । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । पौनःपुन्ये भृशार्थं च द्योत्ये एकचो हलादेर्धातोर्यङ् स्यात् । पुनः पुनर्भवति इत्यर्थं भूधातोः यङ् भयति । सम्यङगे (पृ० १७) रित द्वित्वम् । जश्त्वम् ।। द्भूय इति जालेगुणो यङ्लुकोः। अभ्यासस्य गुणः स्यद्यङि यङ्लुकि व । ‘बोभूय” इत्यङ्गम् । ङित्त्वात । चोभूयते। बोभूयेते। इत्यादि । भातोरनेकाच्स्वात् लिटि तृतीया विधा। अथ यङ्लुगन्ताः । यङोऽचि च । यथाऽच्प्रत्यये परे छुक् स्यात् । चकारान्निमित्तं विनापि छ । चर्करीतं परस्मैपदमदादिवच्च । इति परस्मैपदप्रत्यया १. ‘अर्करीतम्” इति श्रइङ्गन्त य संज्ञा ।