पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ८५ कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये । दीपैरुद्दीपितं कृत्वा तन्मध्ये निवसन् पुनः ॥ ३०८ ॥ परमानन्दचित्तेन तद्रूपस्य जपं चरेत् । एकलक्षेन जप्तेन साधयेत् सिद्धिमुत्तमाम् ॥ ३०६ ॥ रात्रौ जपं तथा पूजां रहस्यामृतसेवनम् । यदि न स्यात् कुलानन्दसाधकः कौलिकः कथम् ॥ ३१० ॥ बहुधा कथितं देवि सत्यं जानीहि मद्वचः । कुलामृतं विना देवि चेतः कस्मात् प्रसीदति ॥ ३११ ॥ ततो देवि समादाय पूजितां कुलपावनीम् । अनन्यभावमाश्रित्य ममात्मा सुप्रसीदति ॥ ३१२ ॥ श्रीदेव्युवाच । किमर्थ बहुधा देव मोदिनीस्तुतिरीरिता । तां विना नैव सिद्धिः स्यादित्येवं कथितं कथम् ॥ ३१३ ।। तन्मे ब्रूहि महेशान येन तत्साधनं सदा । क्रियते शान्तचित्तेन तद्रूपं दृश्यते मुदा ॥ ३१४ ।। श्रीभैरव उवाच । शृणु देवि परं गुह्यं कारणस्य च कारणम् । येन ज्ञातेन शारीरं मानसं च महेश्वरि ॥ ३१५ ॥ विनश्यति महा(देवि?मोहो)दिव्यं देहं च लप्स्यते । सर्वागमार्थसारं च सर्वयोगस्य मातरम् ॥ ३१६ ॥ शरीरं मलिनं विद्धि मनश्चञ्चलमेव च । मलापकर्षणं नास्ति कुतो ध्यान महेश्वरि ॥ ३१७ ।। शरीरभावा बहवः सुखदुःखात्मकाः शुभे । चेतः संमीलनं केन ज्ञायतां तव जन्तुषु ॥ ३१८ ॥