सप्तमः पटलः । बृहस्पतिरुवाच । देवेन्द्र शृणु मद्वाक्यं येन त्राणं भविष्यति । हिरण्याक्षपुरे देव दैत्याः सर्वारिमर्दकाः ॥ २०८ ॥ तेषां पराभवं कर्तुं न क्षमो जगतीतले । कारणं शृणु देवेश येनैव शृणु मद्वचः ॥ २०६ ॥ पुरा त्रेतायुगे राजन्नकरोर्नीलसाधनम् । तेन पुण्यफलेनैव इन्द्रत्वं गतवान् प्रिय ॥ २१० ॥ कालीतारासाधनं च नानारूपेणविस्तरंस्तृतम्) । अकरोद् दैत्यपुत्रोऽसौ तस्मात् पुण्यफलादिदम् ॥ २११ ॥ येनोपायेन देवेश इन्द्रत्वं प्राप्स्यसि स्वयम् । तस्योपायं महाराज सावधानोऽवधारय ॥ २१२ ।। धर्मेण वर्धते नित्यमधर्मान्न विवर्धते । येन रूपेण देत्योऽसौ धर्म संत्यजति द्रुतम् ॥ २१३ ॥ तमुपायं जगद्वन्द्य(ब्रूहि शृणु)सत्यं वचो मम । वृद्धब्राह्मणरूपेण वञ्चयामि सुरेश्वर ॥ २१४ ॥ ततो विप्रो महान् भूत्वा वृद्धः पण्डितपावनः । सर्वशास्त्रार्थतत्त्वज्ञो हिरण्याक्षपुरं ययौ ॥ २१५ । शृणु वत्स महद्वाक्यं येन भद्रं भविष्यति । अहं तु सर्वशास्त्रज्ञो निर्धनत्वादिहागतः ॥ २१६ ।। वृत्तिं दत्त्वाध्यापकत्वमिति भिक्षा कृता मया । अध्यापकाय यो वृत्तिं दत्त्वाध्यापयति द्विजान् ॥ २१७ ।। किं न दत्तं भवेत्तेन धर्मकामार्थमिच्छता । पुण्यात् पुण्यतरं पुण्यं जानीहि सर्वसंमतम् ।। २१८ ॥ तथाऽस्त्विति वचः(श्रु? कृ)त्वा चाददद् वृत्तिमुत्तमाम् । अध्यापयामास द्विजान् दत्त्वा वृत्तिं मनोरमाम् ॥ २१६ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३६
एतत् पृष्ठम् परिष्कृतम् अस्ति