पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । प्राङ्गने चाथवा भूमौ साधयेद् वीरसाधनम् । कदलीस्तम्भमारोप्य वेदिकां च महेश्वरि ॥ २१ ॥ घटं तत्र च संस्थाप्य सिन्दूरेण समन्वितम् । आम्रपल्लवमेतस्मिन् पानसं खादिरं तथा ॥ २२ ॥ अश्वत्थबदरीपत्रं क्षिपेत् कुम्भे गणेश्वरि । स्वर्णं रुप्यं तथा मुक्तां प्रवालं स्फटिकं तथा ॥ २३ ॥ एतत् सर्वं समुत्क्षिप्य साधयेद् वीरसाधनम् । संलिख्य मातृकायन्त्रं तत्रोपरि विशेन्मुदा ।। २४ ।। कम्बले संविशेन्मन्त्री उत्तराशामुखः स्थितः । नानाद्रव्यैः पूजयित्वा अन्नव्यञ्जनसंयुतम् ॥ २५ ॥ छागमांसं तथा सान्नं परमान्नं मनोरमम् । पायसं च तथा देवि महादेव्यै प्रदापयेत् ॥ २६ ॥ आनीय युवतीं रम्यां नानालङ्कारभूषिताम् । केशसंस्करणं कृत्वा ताम्बूलं च प्रदापयेत् ॥ २७ ॥ स्तनद्वये रमाबीजं मुखे वाग्भवबीजकम् । भगपार्श्वद्वये देवि लिखेत् कामद्वयं शिवे ।। २८ ।। कुन्तलाकर्षणं कुर्यात् स्तनमर्दनपूर्वकम् । संक्षिप्य लिङ्गं तद्योनौ घातं कुर्याचशुचिस्मिते ॥ २६ ॥ सहस्रस्य प्रमाणेन जपं कुर्याद् वरानने । सप्तदिनप्रयोगेण मन्त्रसिद्धिर्भवेत् प्रिये । ३० ॥ अथवा प्रजपेत् मन्त्रं यावत्पत्रं न दृश्यते । पत्रे जाते महेशानि मन्त्रसिद्धिर्न संशयः ॥ ३१ ॥ इति ते कथितं देवि रहस्यं सर्वकामदम् । न प्रकाश्यं महेशानि न प्रकाश्यं कदाचन ॥ ३२ ॥