२३७ द्वाविंशः पटलः । रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता | । रणप्रीता रणरता रणासुरविनाशिनी ॥ ४४ ॥ रणाग्रवर्तिनी (३००) राणा रणाग्रा रणपण्डिता । जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा ॥ ४५ ॥g रतिप्रिया रतिरता रतिभक्ता रतातुरा । रतिभीता रतिगता महिषासुरनाशिनी ॥ ४६ ।। यो रक्तपा रक्तसंप्रीता रक्ताख्या रक्तशोभिता । रक्तरूपा रक्तगता रक्तखर्परधारिणी ॥ ४७ ॥ गलच्छोणितमुण्डाली कण्ठमालाविभूषिता । वृषासना वृषरता वृषासनकृताश्रया ।। ४८ ॥ व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा । कामाङ्गी परमा प्रीता परासुरनि(वा रा)सिनी ॥ ४६ ॥ तरुणा तरुणप्राणा तथा तरुणमर्दिनी । तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती ॥ ५० ॥ स्वप्नावती स्वप्नरता नारसिंही महालया । अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा ॥ ५१ ॥ मन्दाकिनी मन्दरता महानन्दा वरप्रदा । मानदा मानिनी मान्या माननीया मदातुरा ॥ ५२ ।। मदिरा मदिरोन्मादा मदिराक्षी मदालया । सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता ॥ ५३ ॥ जयप्रदा जयरता दुर्ज(या?य्या)सुरनाशिनी । दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी ॥ ५४ ॥ सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी । कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ॥ ५५ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६२
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e1/%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%80%E0%A4%B2%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D.djvu/page262-1020px-%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%80%E0%A4%B2%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D.djvu.jpg)