पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ बृहन्नीलतन्त्रम् । श्रीभैरव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु । केन रूपेण देवेश दद्याद् विप्रोऽथ चासवम् ॥ १६ ॥ विशेषं कथयस्वाग्रे सारात् सारतरं यतः । कैतवं च परित्यज्य यदि स्नेहोऽस्ति मां प्रति ॥ १७ ॥ केन पेयमासवं च केनापेयं वदस्व मे । अपेयं तन्महाबाहो पेयं वा तद्वदस्व मे ॥ १८ ॥ यस्मान्मे परमेशान दूरीभवति संश(व, यः) । कोटीनां तिसृणां देवि तन्त्राणां सारमुत्तमम् ॥ १६ ॥ तस्मादत्र प्रकथ्यं ते सत्यं सुरगणार्चित । श्रीभैरव उवाच । शृणु देवि महाभागे सर्वशास्त्रार्थगामिनि । जिज्ञासितं परं तत्त्वं तन्मे निगदितं शृणु ॥ २० ॥ "मद्यमदेयमपेयमनिर्ग्राह्यं चेति, जपे देयं चेति ।" सुरा वै मलं सत्त्वानां पाप्मा तु मलमुच्यते । तस्माद् ब्रह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ २१ ॥ अस्यां शृणु वरारोहे सुरां सुरगणार्चिताम् । गौडी पैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा ॥ २२ ॥ पातव्या हि महाभागे नतु कैश्चित् द्विजोत्तमैः । पनसं द्राक्षमाधुकं खार्जूरं तालमैक्षवम् ॥ २३ ॥ माक्षिकं तालमा(ध्वि ध्वी)कं मैरेयं नारिकेलजम् । समान्येव विजानीयान्मद्या(न्ने न्ये)कादशैव तु ॥ २४ ॥ सुरापानविधौ देवि निन्दा केषां च संमता । विशेषं शृणु देवेशि तव स्नेहात् प्रकाश्यते ॥ २५ ॥