७० बृहन्नीलतन्त्रम् । बलिदानं महादेव्यै कुर्यात् साधकसत्तमः । छागं दद्यात्तथा मेषं महिषं गोधिकां तथा ॥ १२८ ॥ कपोतं च महेशानि दद्याद् देव्यै मनोहरम् । मधूदकं महादेव्यै शर्करादिविनिर्मितम् ॥ १२६ ।। ततः शत्रुबलिं राजा दद्यात् क्षीरेण निर्मितम् । स्वयं छिन्द्यात् क्रोधदृष्ट्या प्रहारजनकेन च ॥ १३० ।। कोपेन च सकृद् देवि सत्यं सत्यं गणेश्वरि । प्राणप्रतिष्ठां कृला वै शत्रुनाम्ना महेश्वरि ।। १३१ ।। शत्रुक्षयो महादेवि भवत्येव न संशयः । मन्त्र जप्त्वा विधानेन नमस्कुर्याच्छुचिस्मिते ॥ १३२ ॥ वाद्यभाण्डं निवद्यैव सर्वयत्नेन देशिकः । ततः स साधको वीरो जायते नात्र संशयः ॥ १३३ ।। सन्दंशं परमं दद्याद् भृष्टद्रव्येण संयुतम् । गुडक्षीरं मधु द्राक्षामिक्षुदण्डं पुरातनम् ॥ १३४ ॥ रम्भाफलं बीजपूरं तथा च नारिकेलकम् । मधुयुक्तं नारिकेलं शस्यं दद्यान्महेश्वरि ।। १३५ ।। अवश्यं दापयेत् तत्तु देवीतोषो महान् भवेत् । गुप्तमन्त्रं महेशानि जानीहि नगनन्दिनि ॥ १३६ ॥ भुवनेशी-द्वयं भद्रे कूर्चयुग्मं ततः परम् । निजबीजद्वयं देवि दक्षिणे कालिकेति च ॥ १३७ ॥ संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत् । वेदादिश्च महामन्त्रो वह्निजायावधिः स्मृतः ॥ १३८ ॥ अस्मात् परतरं नास्ति कालीमन्त्रः परात्परः । कल्पपादपनामायं भजतां कामदो मनुः ॥ १३६ ॥ १ मन्त्रस्तु डोंह्रींहींहूंहूंकींकी दक्षिणे कालिके क्रींक्रीहूंहूं ह्रींहीं स्वाहा ॥ -
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९५
एतत् पृष्ठम् परिष्कृतम् अस्ति