ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ तुरेकदेशिमतनिरासार्थः । ‘हस्ती वै ग्रह' (वृ. ३-२-८) इत्यादिना हस्ता- दयोऽप्यतिरिक्ताः प्राणाः श्रूयन्ते । सप्तत्वसङ्ख्यायामसम्भावितान्तर्भावे सप्तत्वाति- रेके स्थिते सप्तत्वसङ्ख्चैकादशत्व सङ्ख्यायामन्तभवयितुं शक्यते । अतो नैवं मन्त- व्यं सतैव प्राणा इति ॥ ६ ॥ एवं वा सूत्रद्वयं योजनीयम् । सवेन्द्रियाणि 'प्राणमनकामन्तं सर्वे प्राणा अनूत्क्रामन्ति' (बृ ४-४-२) इति प्राणादिसप्तानामेव गतेः श्रवणात् । ननु सर्व- शब्दश्रवणात् कथं सप्तानामेवेति तत्राह विशेषितत्वाच 'यत्रैष चाक्षुषः पुरुषः (बृ. ४-४-१) इत्यादिना चक्षुरादिसप्तानामेवोत्कान्तौ विशेषितत्वात् || अतः सर्वशब्दस्य प्रकृतापेक्षत्वात सवोत्क्रामन्तीति प्राप्ते उच्यते हस्ता- दयोऽप्यपरे प्राणा उत्क्रामन्ति 'दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्माच्छरी- रादुत्क्रामन्स्यथ रोदयन्ति' (बृ. ३-९-४) इत्येकादशानां प्राणानामुत्क्रान्तिश्रवणात् सर्वेषामेवोत्क्रमणे स्थिते सति नैवं यत् सप्तैवेति । तस्मान्न श्रुतीनां मिथो विरोध इति सिद्धम् ||
- ३ प्राणाणुत्वाधिकरणम्
नन्विन्द्रियाणामुकान्तिर्न सम्भवति तेपामपरिच्छिन्नाहकारजन्यत्वेन विभु- स्वादित्याक्षेप सङ्गत्येदमाह- अणवश्च ॥ ७ ॥ अत्रोत्क्रान्त्यादिश्रुतेः 'प्राणाः सर्वेऽनन्ता' इतीन्द्रियविभुत्वश्रुत्या विरोधो- ऽस्ति न वेति सन्देहे विरोधोऽतीत पूर्वः पक्षः । सिद्धान्तस्तु इमे प्राणा अणवः प रिच्छिन्नाः इन्द्रियाग्राह्यत्वेन सूक्ष्मत्वाद् विभुत्वश्रुतेरुपासनापरत्वान्न तयोत्क्रान्त्या- दिश्रुतेर्विरोध इति सिद्धम् ॥ ७ ॥
- ४ प्राणश्रैष्ठ्याधिकरणम्
इत्थं मुख्यप्राणातिरिक्तप्राणानां सृष्ट्यादिकं शिष्टा मुख्येऽपि प्राणे प्रथ- माधिकरणन्यायमतिदिशति- श्रेष्ठश्च ॥ ८ ॥ अतिदेशत्वान्न पृथक्सङ्गत्यपेक्षा । अत्र 'एतस्माज्ञायते प्राण' (मु. २-१-१)