पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां भेदश्रुतेः ॥ १८ ॥ वागादीन्द्रियप्रकरणमुपसंहृत्य 'अथ हेममासन्यं प्राणमूचुः' (बृ. १-३-७) इति भिन्नप्रकरणे प्राणस्येन्द्रियेभ्यो भेदेन श्रवणान प्राणव्यापारत्वमिन्द्रियाणां, (किन्तु) तत्त्वान्तरत्वमित्यर्थः ॥ १८ ॥ किञ्च - वैलक्षण्याच ॥ १९ ॥ सुषुप्त्यवस्थायां प्राणस्य स्थितिर्नेन्द्रियाणामित्यादिबहुवलक्षण्यात् तत्त्वान्त- रत्वान्नानयोर्विरोध इति सिद्धम् ॥ १९ ॥

  • ९ संज्ञामूर्तिक्लृप्त्यधिकरणम् *

पूर्वं नामरूपभेदात् प्राणेन्द्रिययोर्भेद इत्युक्तम् । तत्प्रसङ्गेन नामरूपव्या- करणं किंकर्तृकमिति विचार्यत इति प्रसङ्ग सङ्गत्येदमाह- - संज्ञामूर्ति कुप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ उत्पद्यमान व्यापाररूपोत्पत्तिविषयश्श्रुतिविप्रतिषेधपरिहारानन्तरमुत्पादकव्या- पाररूपोत्पादनविषयश्रुतिविप्रतिषेधः परिट्रियते । तत्रात्रिवृत्कृतानामुत्पादनं पारमे- श्वरमेव । त्रिवृत्कृतभौतिकोत्पादने तु श्रतिविप्रतिपत्तिर्दृश्यते । 'अनेन जीवेनात्म- नानुप्रविश्य नामरूपे व्याकरवाणीति' (छा. ६-३-२) 'तासां त्रिवृतं त्रिवृत- मेकैकां करवाणि’ (छा. ६-३-३) इति जीवकर्तृत्वश्रुतेः 'आकाशो ह वै नामरू- पयोर्निर्वहिता' (छा. ८-१४-१) इति परमेश्वरकर्तृकत्वश्रुतेश्च मिथो विरोधोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु सौत्रतुशब्दः पूर्वपक्षनिरासार्थः । ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इति त्रिवृत्कुर्वतः परमेश्वरस्यैव संज्ञामूर्ति- क्ऌप्तिर्नामरूपव्याक्रिया भवितुमर्हति, कस्मात्, 'सेयं देवता' इत्युपक्रम्य, व्याक- रवाणि' इति व्याकरणस्य परदेवताकर्तृकत्वोपदेशात् । न च 'अनेन जीवेन' इति विशेषणाद् जीवकर्तकम् अल्पमेधसो जीवस्य महीधरमहोदधिव्याकरणे सामर्थ्या- भावाद् 'अनेन जीवेन' इत्यस्य सन्निहितेन 'अनुप्रविश्य' इत्यनेन सम्बन्धाच्च 'नानयोर्विरोध इति ॥ २० ॥ , 'इत्थं बाह्यं त्रिवृत्करणमभिधायाध्यात्मिकं परं त्रिवृत्करणमभिधातुमाह - मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥ भूमेरन्नात्मिकाया स्त्रिवृत्कृतायाः कार्य भौमं मांसादि । आदिशब्देन पुरीष-