ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ध्याय आरभ्यते । पूर्व जीवोपकरणभूतभौतिकजन्म निरूपितम् । तदुपजीव्य तदु- पहितस्य जीवस्य संसारप्रकारं वैराग्यार्थं निरूपयितुं देहान्तरारम्भे भूतसूक्ष्मसम्प- रिष्वक्तस्यैव परलोकगमनमित्याह- तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ।।१ ॥ अत्र पूर्वपक्षे निराधारप्राणादिगमनासम्भवान्न वैराग्यं, सिद्धान्ते तत्सम्भ- वाद्वैराग्यमिति फलभेदः । स जीवः किं देहान्तरारम्भकैः पञ्चीकृतभूतभागैरसम्प- रिप्वक्तो गच्छति उत सम्परिष्वक्त इति सन्देहे मानाभावादसम्परिप्वक्त इति पू- वः पक्षः । सिद्धान्तस्तु तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ तदारम्भकभूतैः सम्परि- व्वक्तो रंहति गच्छति । कुतः, प्रश्ननिरूपणाभ्यां 'वेत्थ यथा पञ्चम्यामाहुता- वापः पुरुषवचसो भवन्ति' (छा. ५-३-३) इति प्रश्नः । पर्जन्यपृथिवीपुरुषयो- षित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा 'इति तु पञ्चम्या- माहुतावापः पुरुषवचसो भवन्ति' (छा. ५-९-१) इति निरूपणं प्रतिवचनम् | ताभ्यामित्यर्थः ॥ १ ॥ नन्वेवमद्भिः सम्परिष्वक्तो गच्छतीति गम्यते । कथं तदितरभूतपरिप्वङ्ग- सिद्धिः । तत्राह - त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥ त्रिकरणापातिरभूतद्वय मेलनेन व्यात्मकत्वात् । कथं तर्हि श्रुताव- ब्भूयस्त्वं, तेजआद्यपेक्षयापां देहे भूयस्त्वादित्यर्थः ॥ २ ॥ प्राणगतेश्च ॥ ३ ॥ प्राणानां 'तमुत्क्रामन्तम् (बृ. ४-४-२) इत्यादिना भूताश्रितानामेव गतेः श्रवणात् तत्सम्परिष्वङ्गसिद्धिः ॥ ३ ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥ 'मृतस्यामिं वागप्येति वातं प्राण:' (बृ. ३-२-१३) इत्यादिनाग्न्यादिषु गतिश्रुतेर्लयश्रवणान्न जीवेन वागादयो गच्छन्तीति चेन्न । वागादिलयश्रुतेः 'ओ- षधीर्लोमानि' (बृ. ३-२-१३) इतिवद् भाक्तत्वादित्यर्थः ॥ ४ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति