तृतीयाध्याये प्रथमः पादः । संशोकजस्य स्वेदजस्य, वृक्षादिकं पृथिवीमुद्भिद्य जायते स्वेदजं तु जलमुद्भिद्येत्यु- भयोरवयवार्थत्वाविशेषात् । तेनास्य सङ्ग्रहः कृतः । न ह्येतावता चातुर्विध्यहानि- र्भवति स्थावरजङ्गमात्मकत्वेनोभयोर्भेदस्य दुरपह्नवत्वात् । अतः अनिष्टादिकारिणां न चन्द्रलोकप्राप्तिः, अपि त्विष्टादिकारिणामेवेति सिद्धम् ॥ २१ ॥
- ४ तत्सा भाव्यापत्त्यधिकरणम् *
पूर्वे 'तृतीयं स्थानमिति स्थानशब्दस्य मार्गद्वयोपक्रमसामर्थ्यात् तृतीय- मार्गोपलक्षकत्वमुक्तम् । न तथेह भवतिश्रुतेः सादृश्यलक्षकत्वं तत्र मानाभावादि- ति प्रत्युदाहरणसङ्गत्येदमाह -- तत्साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥ अत्र पूर्वपक्षे भवतिश्रुतेर्मुख्यत्वसिद्धिः, सिद्धान्ते गौणत्व सिद्धिरिति फल- भेदः । पूर्वमिष्टादिकारिणोऽवरोहन्तीत्युक्तम् । अत्र तेषामवरोहप्रकारश्चिन्त्यते । श्रूयते यत्रावरोहश्रुतिः –‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' (छा. ५-१०-५) इति । तत्र किं स्वर्गादवरोहन्तो जीवा आकाशादि- स्वरूपं प्रतिपद्यन्ते उत तत्साम्यमिति विशये आकाशादिस्वरूपमिति पूर्वः पक्षः । सिद्धान्तस्तु जीवानां तैराकाशादिभिः साभाव्यापत्तिः समानो भावो रूपं येषां ते सभावाः, तद्भावः साभाव्यं सादृश्यम् तस्यापत्तिः प्राप्तिः । कुतः, उपपत्तेः । चन्द्रलोकं गतानामनुशयिनां प्रवृत्तफलकर्मक्षयदर्शनजनितशोकाग्निना दह्यमानमिदं शरीरं करकादिवद् विलीयमानमाकाशसमं भवतीत्येतदुपपद्यते । न ह्यन्यस्यान्य- भावो मुख्य उपपद्यते । तस्मात् सादृश्यमेव प्रतिपद्यन्त इति सिद्धम् ॥ २२ ॥
- ५ नातिचिराधिकरणम् *
● , इत्थं पूर्वमाकाशादिषु वर्षान्तेषु पूर्वपूर्वसादृश्यानन्तरमुत्तरोत्तरसादृश्यमि- त्युक्तम् । तदुपजीव्यान्यद्विचार्यत इत्युपजीव्योपजीवकभावसङ्गत्येदमाह - नातिचिरेण विशेषात् ॥ २३ ॥ अत्र पूर्वपक्षे अधिकारिणः सर्वत्र तत्सादृश्यपरिहारार्थे कर्तव्यप्रयत्नस्य गौरवं सिद्धान्ते तदर्थं कर्तव्यप्रयत्नस्य कचिल्लाघवं क्वचिद्गौरवमिति फलभेदः । अत्र किं जीवश्चिरं कालमेव सादृश्येनावस्थाय परसादृश्यं गच्छति, उताल्पमल्पमिति विशये