ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां निधानकाभावादनियम इति पूर्वः पक्षः । सिद्धान्तस्तु जीवो नातिचिरेणाल्पकाल- मेवाकाशादिवर्षान्तैः सादृश्येनावस्थाय वर्षधाराद्वारा पृथिवीं प्रविशति, कुतः, ब्रीह्यादिभावापत्त्यनन्तरम् 'अतो वै खलु दुर्निप्प्रपतरम्' (छा. ५-१०-६) इति विशेषात् ततः पूर्वं सुनिष्प्रपतरत्वं प्रतीयते । तस्य ह्याकाशादौ जीवस्य प्रतीय- माने सुखदुःखे चिरकालावस्थानाल्पकालावस्थाने भवतः, न मुख्ये तदानीं विना स्थूलशरीरं लिङ्गशरीरमात्रेण सुखदुःखोपभोगासम्भवात् । अतो ब्रीह्यादिप्रवेशात् पूर्वमल्पमल्पमेव कालं तत्सादृश्येनावस्थानमिति सिद्धम् ॥ २३ ॥
- ६ अन्याधिष्ठिताधिकरणम् *
पूर्व दुर्निप्प्रपतरशब्दस्य चिरकालावस्थानलक्षकत्वेऽपि प्रकृते ब्रीह्यादिभा- वेन जायन्त इति जीवजन्म श्रुतेर्मुख्यत्वसम्भवादिति प्रत्युदाहरणसङ्गत्येदमाह- अन्याधिष्ठिते पूर्ववदभिलापात् ॥ २४ ॥ अत्र पूर्वपक्षे त्रीह्यादिजन्मनो मुख्यत्वेऽनुशयिनां तत्परिहारायाधिकारिणा- धिकं प्रयतितव्यं, सिद्धान्ते तदीयसंसर्गमात्रं निराकतु नाधिकं प्रयतितव्यमिति फलभेदः । तस्मिन्नेवावरोहे 'त इह ब्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते' (छा. ५-१०-६) इति श्रूयते । तत्र किं ब्रीह्यादिभावेन जीवानां जनिशु- तिर्मुख्या उत जीवान्तरेणाधिष्ठिते श्रीयादौ संसर्गमात्रमिति विशये मुख्यति पूर्वः पक्षः । सिद्धान्तस्तु अन्यैर्जीवैरधिष्ठिते श्रीह्यादौ संसर्गमात्रमनुशयिनां भवति, कुतः, पूर्वचदभिलापाड् । यथाकाशादिवर्षान्तेषु कर्मपरामर्शमन्तरेणैव प्रवेश उक्तः, एवं बीह्यादिष्वपि कर्मपरामर्श विनैव प्रवेशाभिलापात् । अतः कर्मपरामर्शाभावा- न्न ब्रीह्यादिष्वनुशयिनां सुर्खादिभोगः । यत्र तु तद्भोगः, तत्र कर्मोपादानं 'रमणी- यचरणा' (छा. ५-१०-७) इत्यादिना दृश्यते । तस्माज्जनिश्रुतिः संसर्गमात्राभि- प्राया न मुख्येति सिद्धम् ॥ २४ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥ ननु ज्योतिष्टोमादिकं कर्म पशुहिंसादियोगादशुद्धम् । तत्कारिणामनुश- यिनां ब्रीह्यादिस्थावरेषु दुःखानुभवार्थ मुख्यमेव जन्मास्त्विति चेन्न, शब्दाद् विधि- शास्त्राद् अग्निष्टोमादेर्धर्मत्वेनावगतत्वान्न दुःखहेतुत्वमित्यर्थः ॥ २५ ॥ १. 'णाल्पमल्पं का' खपुस्तके पाठः. २. 'खदुःखभोक्तृत्वम् । यत्र तु तद्भोक्तृत्वं, तत्र कर्मपरामर्शो रम' खपुस्तके पाठः,