पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये द्वितीयः पादः । किञ्च- रेतस्सिग्योगोऽथ ॥ २६ ॥ अथ व्रीह्यादिभावानन्तरमनुशयिनां रेतः सिञ्चतीति रेतस्सिकू तद्योगस्ट- द्भावः 'यो रेतः सिञ्चति तद्भूय एव भवति' (छा. ५-१०-६) इति श्रुतावान्ना- यते । न ह्यत्रानुशयिनां रेतत्सिग्भावो मुख्यः सम्भवति इदानीं पुरुष प्रविष्ट- त्वेनाप्राप्तयौवनत्वात् । अतः तद्भावः तत्संसर्गो वाच्यः । तथा श्रीयादावपि संस- र्ग एव । आकाशादावपि संसर्गस्यैवावगतत्वेन सन्दंशन्यायादिति भावः ॥ २६ ॥ नन्वनुशायिनां सर्वत्र संसर्गस्यैवानीकारे मुख्यजन्म कापि न स्यादित्यत आह- -- योनेः शरीरम् ॥ २७ ॥ योनौ रेतसि निषिक्ते ततः सुखदुःखोपभोगयोग्यं कर्मोपार्जितं शरीरमनु- शयिनां जायत इति 'रमणीयचरणा' (छा. ५-१०-७) इत्यादिशास्त्रमाह । त- स्माद् ब्राह्मणादियोनावेवानुशयिनां मुख्यजन्म न त्रीह्यादाविति गत्यागतिविवेक- कृतं वैराग्यं ज्ञानसाधनमित्यनवद्यम् ॥ २७ ॥ अस्मिन् पादे षडधिकरणानि । सूत्राणि सप्तविंशतिः । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां तृतीयाध्यायस्य प्रथमः पादः । अथ द्वितीयः पादः ।

  • १ सन्ध्याधिकरणम्

इत्थं गत्यागतिनिरूपणेन कर्मफलेभ्यो विरक्तस्य महावाक्यार्थज्ञानांय तत्त्वं- पदार्थावस्मिन् पादे शोध्येते इति हेतुहेतुमद्भावसङ्गत्या द्वितीयः पाद आरभ्यते । तत्र पूर्वं गत्यादिचिन्तया जाग्रदवस्था निरूपिता । तदनन्तरं त्वंपदार्थस्य स्वयं- ज्योतिष्वसिद्धये स्वप्नावस्थां निरूपयितुमिदमाह - सन्ध्ये सृष्टिराह हि ॥ १ ॥ पादान्तरत्वादव्यवहिताधिकरणेनास्य न सङ्गत्यपेक्षा । अत्र पूर्वपक्षे व्याव- हारिकस्वप्नावस्थातो जीवस्य पृथकरणायोगात् स्वयंज्योतिष्वासिद्धिः, सिद्धान्ते