१०० ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय - तद्योगात् तत्सिद्धिरिति फलभेदः । एवं हि स्वममधिकृत्य श्रूयते – 'अथ स्थान् रथयोगान् पथ: सृजते' (बृ. ४-३-१०) इति । तत्र किं स्वप्नसृष्टिर्व्यावहारिकी उत मायामात्रमिति सन्देहे पूर्वः पक्ष:- सन्ध्ये जाग्रत्सुपुप्त्योः सन्धौ भवे स्वप्ने सृष्टिर्व्यावहारिकी, हि यस्माद् 'अथ रथान्' इत्यादिका श्रुतिरेवमाह ॥ १ ॥ किञ्च - निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ एके शाखिनोऽस्मिन्नेव स्वप्ने कामानां निर्मातारमीश्वरमामनन्ति 'य एष सुप्तेषु जागति कामं कामं पुरुषो निर्मिमाण: ' ( क. ९ - ८) इति । पुत्रादयश्च तत्र कामा अभिधीयन्ते काम्यन्त इति । एवं च स्वप्नसृष्टिर्व्यावहारिकी ईश्वरकर्तृक- त्वात् क्षित्यादिवदित्यनुमानमनेन सूत्रेण सूचितम् । तस्मात् पूर्वोदाहृतश्रुत्यैतद - नुमानेन च स्वप्नसृष्टिर्व्यावहारिकीति सिद्धम् || २ || एवं पूर्वपक्षे सिद्धान्तः- मायामात्रं तु कायें नानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ तुः पूर्वपक्षनिरासार्थः । स्वप्नसृष्टिः शुक्तिरूप्यवन्मायामात्रं, कुतः, कात्स्यें- नानभिव्यक्तस्वरूपत्वात् । न हि कार्येन देशकालादिसम्पत्त्यबाधरूपपरमार्थवस्तुष- र्मेणाभिव्यक्तस्वरूपः स्वप्नः । अतस्तादृशधर्मेणानभिव्यक्तस्वरूपत्वात् प्रातिभासिक एव स्वप्नः । यदुक्तम् ‘अथ रथान् रथयोगान् पथ: सृजते' (बृ. ४-३-१० ) इति, तच्च 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति' (वृ. ४-३-१०) इत्ये- वमादिकया श्रुत्यैव परिहृतम् । यच्चानुमानमुक्तं तत्रोचितदेशकालादिजन्यत्वमु- पाधिः । हेत्वसिद्धिश्च ‘स्वयं विहत्य स्वयं निर्माय' (बृ. ४-३-९) इत्यादिना श्रुत्यन्तरेण स्वप्नसृष्टेजींवकर्तृकत्वश्रवणात् । अतः स्वप्नसृष्टिर्मिथ्येति सिद्धम् ॥३॥ ननु स्वमस्य मिथ्यात्वे तत्तूचितोऽप्यर्थः सत्यो न स्यादित्यत आह - सूचकश्च हि श्रुतेराचक्षते हि तद्विदः ॥ ४ ॥ स्वप्ने जायमानः स्त्रीदर्शनादिः सत्य एव । स च सत्यस्य साध्वसाधुव- स्तुनः सूचको हेतुः । तथा हि - 'यदा कर्मसु काम्येषु स्त्रियं स्वमेषु पश्यति । - १. 'अस्मिन्' इत्यतः प्राग् 'जीववत् तथा' इति कपुस्तके पठ्यते । तत्स्थाने 'जीवार्थ तया' इति ना 'जागरितवद्' इति वा पाठः स्यादिति भाति, २. 'त्याशङ्कयाह' खपुस्तके पाठः,
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति