तृतीयाध्याये द्वितीयः पादः । १०१ समृद्धिं तत्र जानीयाद्' (छा. ५-२-८) इत्यादिश्रुतेरवगम्यते । आचक्षते च स्वप्ना- ध्यायविदः शुभाशुभसूचकत्वं स्वप्नदर्शनस्य | वस्तुतस्तु दर्शनस्य स्त्रयाद्यर्थरूषि - तत्वेनासत्यत्वेऽपि शुक्तिरूप्यविज्ञानस्य सत्यहर्षादिजनकत्ववत् सत्यशुभादिसूचक त्वमविरुद्धमिति भावः ॥ ४ ॥ ननु पूर्वमुचितदेशादिनिमित्ताभावात् स्वप्नो मायेत्युक्तमयुक्तम् ऐश्वर्ययोगात् सङ्कल्पमात्रेणापि सत्यसृष्टिसम्भवादित्याशङ्कयाह - पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ अस्य जीवस्य तिरोहितमैश्वर्यं परस्येश्वरस्याभिध्यानाद् आभिमुख्येन घ्या- नादभिव्यक्तं भवति, कुतः, ततस्तस्मादज्ञातादीश्वराद्वन्धः, ज्ञाताद्विपर्ययो मोक्ष इति 'ज्ञात्वा देवं सर्वपाशापहानिः क्षीणै: क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्या- नात् तृतीयं देहभेदे विश्वैश्वर्य केवल आप्तकामः' (श्वे. १-११) इति श्रुतिर्दर्शयति । एवञ्च जीवेश्वरयोरभेदेऽप्यैश्वर्यस्य तिरोहितत्वान्न जीवस्य सङ्कल्पमात्रेण स्रष्टृत्व- मिति भावः ॥ ५ ॥ ननु जीवस्यैश्वर्यतिरोभावे को हेतुरित्याशङ्कयाह- देहयोगाद्वा सोऽपि ॥ ६ ॥ सोऽपि जीवस्यैश्च॑र्यस्य तिरोभाव: देहयोगाद् देहादावात्मत्वाभिमानलक्ष- णाविद्यावशाद् यथा भस्मयोगाद्वहेः प्रकाशनशक्तितिरोभावस्तद्वदित्यर्थः । वाशब्द ईश्वरत्वासम्भवशङ्कानिरासार्थः, अभेदस्याम्नायसहस्र प्रसिद्धत्वात् । अतः स्वप्नप्रपञ्च- स्य मायामात्रत्वेन ततो विनिर्मुक्तस्य जीवस्य स्वयंज्योतिष्वसिद्धिरिति ॥ ६ ॥
- २ तदभावाधिकरणम् *
इत्थं बाह्यकरणोपरमरूपं स्वप्नं जीवस्य स्वयंज्योतिष्ठा विचार्यान्तःक- रणोपरमरूपां सुषुप्तिं प्रतियोग्यनुयोगिभावसङ्गत्या विचारयति- - तदभावो नाडीषु तच्छ्रतेरात्मनि च ॥ ७ ॥ ॥ अत्र पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते स्थानसमु- चयात् तन्निर्णय इति फलभेदः । अत्र सुषुप्तिवाक्यानि विप्रतिपन्नानि दृश्यन्ते । 'आसु तदा नाडीषु सृप्तो भवति' (छा. ८-६-३) इति सुषुप्तिकाले नाडीप्रवेशः १. ‘र्यति' खपुस्तके पाठः,