पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकार्या श्रूयते, क्वचित् ‘ताभिः प्रत्यवसृष्य पुरीतति शेते' (बृ. २-१-१९) इति, क्वचित् 'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते' (बृ. २-१-१७) इति । तत्र किं जीवस्य नाडीपुरीतत्परमात्मनां मध्ये यत्र क्वचित् सुषुप्तिरिति विकल्प उत नाडीपुरीतत्प्र- वेशानन्तरं परमात्मन्येव समुच्चय इति संशये एकफलत्वाद्रीह्यादिवद् विकल्प इति पूर्वः पक्षः । सिद्धान्तस्तु तदभावः स्वप्नाभाव: सुषुप्तिर्नाडीप्वात्मनि चेति ना- ड्यादीनां समुच्चय एव न विकल्पः । स च समुच्चयो नाडीपुरीतत्प्रवेशं विना सम्पत्तेरभावान्नाडीपुरीततोर्गुणभूततया परमात्मनः प्राधान्येनावगन्तव्यः कुतः, तच्छ्रुतेः तस्य नाड्यादीनां सुषुप्तिस्थानत्वस्य श्रुतत्वात् । उक्तसमुच्चयानङ्गीकारे श्रुतीनां संग्रहो न स्यादिति भावः ॥ ७ ॥ " " किञ्च - अतः प्रबोधोऽस्मात् ॥ ८ ॥ ." यतः परमात्मैव सुषुप्तिस्थानम् अत एव हेतोरस्मात् परमात्मनो जीवस्य प्रबोध उपदिश्यते ‘सत आगम्य न विदुः सत आगच्छामहे' (छा. ६-१०-२) इति सद्रूपात् परमात्मनः सकाशाज्जीवा आगच्छन्तीति श्रवणात् । अन्यत्य सुषुप्ति- स्थानत्व इदं श्रवणं बाध्येत अन्यत्र सुषुप्तस्यान्यस्मात् समुत्थानायोगादिति भा- वः । तस्मात् सुषुप्तौ मिथ्याज्ञानाभावमात्रेण ब्रह्मसम्पत्तेः सत्त्वान्मूलाज्ञाननिवृत्तौ साकल्येन ब्रह्मसम्पत्तिरविरुद्धेत्यस्ति जीवस्य ब्रह्मैक्यमिति सिद्धम् ॥ ८ ॥

  • ३ कर्मानुस्मृत्यधिकरणम् *

पूर्व सुषुप्त्यन्ते परमात्मनः सकाशाज्जीवोत्थानश्रुतेः परमात्मैव सुषुप्तिस्था- नमित्युक्तमयुक्तं सुप्तादन्यस्य प्रबोधसम्भवेन सुप्तस्य नाड्यादिस्थानत्वसम्भवादि- त्याक्षेपसङ्गत्येदमाह-- स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ अत्र पूर्वपक्षे सुप्तस्यैवापुनरावृत्तिरूपमुक्तिसिद्धौ ज्ञानवैयर्थ्य, सिद्धान्ते त्व- ज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन तस्यैवोत्थानावश्यम्भावादज्ञाननाशाय ज्ञानसा- र्थक्यमिति फलभेदः । तत्र यः सुप्तो जीवः स एव प्रतिबुध्यते उत स एवान्यो वेत्यनियम इति संशये अनियम इति पूर्वः पक्षः । सिद्धान्तस्तु यः सुप्तो जीवः स एव प्रतिबुध्यते नान्यः, कुतः, कर्मानुस्मृतिशब्दविधिभ्यः पञ्चभ्यो हेतुभ्यः । दि- १. 'सुषुप्त' खपुस्तके पाठः,