तृतीयाध्याये द्वितीयः पादः । १०७ अत्र पूर्वपक्षे ब्रह्मासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । 'द्वे वाव ब्रह्मणो रूपे मूर्त्त चैवामूर्त्त च' (बृ. २-३- १) इत्युपक्रम्य 'अथात आदेशो नेत नेति' (बृ. २-३-६ ) इति श्रूयते । तत्र किं प्रपञ्चो ब्रह्म चेत्युभयमपि निषिध्यते उतैकम्, एकमित्यत्रापि प्रपञ्चो ब्रह्म वेति सन्देहे नियामकाभावादुभयमपीति पूर्व: पक्षः । अथवा प्रपञ्चस्य प्रत्यक्षत्वेन निषेधासम्भवान्निरवधिकनिषेधायोगादेकं ब्रह्मैव निषिध्यत इति पूर्वः पक्षः । सिद्धान्तस्तु प्रकृतं प्रधानमेतावत्त्वमियत्तापरि- च्छिन्नं यद् ब्रह्मणो रूपद्वयं तत् प्रकृतैतावत्त्वम्, तदेव प्रतिषेधति ‘नेति नेति' इत्या- दिश्रुतिः, इतिशब्दस्य प्रधानत्वेन प्रकृतपरामर्शित्वात् । ब्रह्म तु न प्रधानत्वेन प्रकृतं 'द्वे वाव ब्रह्मणो रूपे' (बृ. २-३-१) इति रूपद्वयात्मक जगदुपसर्जनत्वेनै- वाभिहितत्वात् । इतश्च ब्रह्मणो न निषेधः, हि यस्मात् ततः प्रपञ्चनिषेधानन्तरं भूयो ‘न ह्येतस्मादिति नेत्यन्यत्परमस्तीति एतस्मान्नेति नेत्यादिष्टाद् ब्रह्मणो- ऽन्यद्व्यतिरिक्तं नास्ति, ब्रह्मैव तु परमस्तीत्येतन्निर्वचनवाक्यं ब्रवीति । यद्वा ततः प्रपञ्चनिषेधस्य परस्ताद् 'अथ नामधेयम्' (२-१-२०) इत्यादिवाक्यं ब्रह्म ब्रवीतीत्यर्थः । न च प्रपञ्चनिषेधे प्रत्यक्षविरोधः तस्य व्यावहारिकप्रामाण्यादि- त्यनवद्यम् ॥ २२ ॥ " ननु यदि ब्रह्मास्ति तर्छुपर्लभ्येतेति । तत्राह- तदुव्यक्तमाह हि ॥ २३ ॥ तद् ब्रह्म अव्यक्तं न व्यज्यत इत्यव्यक्तं प्रत्यक्षाद्यगोचरं, हि यतः 'न च- क्षुषा गृह्यते नापि वाचा' (मु. ३-१-८) इत्यादिश्रुतिराहेत्यर्थः ॥ २३ ॥ तर्हि सर्वदा ब्रह्मग्रहणाभावे मोक्षो न स्यादित्यत आह - अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपि चैनं परमात्मानं संराधने समाध्यवस्थायां कृतार्थः पश्यतीति प्रत्य- क्षानुमानाभ्यां ‘कश्चिद्धीरः प्रत्यगात्मानमैच्छदावृत्तचक्षुरमृतत्वमिच्छन् ।' (क. ४-१) इत्यात्मिका श्रुतिः, 'यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ' इति स्मृतिः, ताभ्यामवगम्यत इत्यर्थः ॥ २४ ॥ १. 'लभ्येत । त' ख पुस्तके पाठः
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति