ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय बुद्ध्यर्थः पादवत् ॥ ३३ ॥ ‘ब्रह्म चतुष्पाद्’ (छा. ३-१८-२) इति श्रुतावुन्मानव्यपदेशो बुद्ध्यर्थ उ पासनार्थः । निर्विशेषस्य बुद्धिस्थत्वायोगादुपाधिकल्पनाद्वारा बुद्धिस्थत्वादस्योन्मा- नव्यपदेशो न मुख्यः पादवद्, यथा ब्रह्मप्रतीकस्य मनसो वाग्घ्राणचक्षुश्श्रोत्राणा- मुपासनार्थं पादत्वेन व्यपदेशस्तद्वदित्यर्थः ॥ ३३ ॥ सम्बन्धमेदव्यपदेशावपि न मुख्यावित्याह- स्थानविशेषात् प्रकाशादिवत् ॥ ३४ ॥ स्थानविशेषात्, स्थानमुपाधिबुद्ध्यांदि, तद्विशेषात् प्राप्तस्य भेदस्योपाध्य- पशमाद्य उपशमः, स एव प्राज्ञेनात्मना जीवस्य सुषुप्तौ सम्बन्ध इत्युपाध्यपेक्षयो- पचर्यते । अक्ष्यादित्यपुरुषयोर्भेदव्यपदेशोऽप्यक्ष्यादित्यरूपम्थानविशेषापेक्षयोपचर्यते प्रकाशादिवद्, यथा सौरालोकादेरैङ्ङ्गुल्याद्युपाधियोगादुपजातभेदस्योपाध्युपशमात् सम्बन्धव्यपदेश उपाधिभेदाच्च भेदव्यपदेशः, तद्वदित्यर्थः ॥ ३४ ॥ ननु मुख्यावेव सम्बन्धभेदौ किं न स्यातामित्यत आह - उपपत्तेश्च ॥ ३५ ॥ न मुख्यः सम्बन्धो जीवपरयोः सुषुप्तौ भवति 'स्वमपीतो भवति' (छा.६- ८- १) इति स्वरूपस्यैव सम्बन्धत्वव्यपदेशोपपत्तेः, तथा भेदोऽपि न मुख्यः श्रुति सहस्रविरोधादित्युपपत्तेश्चेत्यर्थः ॥ ३५ ॥ इत्थं सेतुत्वादीन् हेतून् निराकृत्य ब्रह्मणोऽद्वितीयत्वं हेत्वन्तरेणाह- तथान्यप्रतिषेधात् ॥ ३६॥ मथा सेतुत्वादिहेतुभ्यो न वस्त्वन्तरप्रतिपत्तिः, तथा 'आत्मैवाधस्तात् ' (छा. ७-२५-२) इत्यादिवाक्यैरन्यस्य वस्तुनः प्रतिषेधादद्वितीयमेव ब्रह्मे- त्यर्थः ॥ ३६ ॥ ननु ब्रह्मणोऽद्वितीयत्वे कथं सर्वगतत्वमत आह- अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥ अनेन सेतुत्वादिव्यपदेशे मुख्यत्वस्य वस्त्वन्तरस्य च प्रतिषेधेन ब्रह्मणः सर्वगतत्वं सिद्धम् । अप्रतिषेधे प्रसिद्धसेतुवद् ब्रह्मणोऽसर्वगतत्वं प्रसज्येत । क स्मात् पुनः सर्वगतत्वम् । आयामशब्दादिभ्यः । आयामशब्दो व्यापकत्ववाचकः १. 'दिः । त' खपुस्तके पाठः २. "रभ्रायु' खपुस्तके पाठ:. ३. 'स्मात् स' कपुस्तके पाठः
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति