ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां पदेशाद् 'एष ह्येव साधु कर्म कारयति' (कौ. ३-८)' अन्नादो वसुदान' (बृ. ४-४- २४) इति श्रुत्या, 'लभते च ततः कामान् मयैव विहितान् हितान्' (गी. ७-२२) इत्यादिस्मृत्या चेश्वरस्य धर्माधर्मयोस्तत्फले च हेतुत्वेन व्यपदेशादिति । अतस्त- त्कर्मसापेक्षादीश्वरादेव सर्वेषां फलसिद्धिः । तदेवमधिकरणचतुष्टयेन निर्विशेषस्व- प्रकाशो निषेधाविषयोऽद्वितीयः शाखा चन्द्रन्यायेन कर्मफलदातृत्वेनोपलक्षितस्तत्प- दार्थः परमात्मा शोधित इति तत्त्वम्पदार्थौ शोधिताविति स्थितम् ॥ ४१ ॥ अस्मिन् पादेऽष्टावधिकरणानि । एकचत्वारिंशत् सूत्राणि ॥ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां तृतीयाध्यायस्य द्वितीयः पाद: । अथ तृतीयः पादः ।
- १ सर्बवेदान्तप्रत्ययाधिकरणम् *
इत्थं पूर्वपादे वाक्यार्थज्ञानकरणभूततत्त्वम्पदार्थनिरूपणमकारि । अधुना बाक्यार्थो निर्धार्यत इति हेतुहेतुमद्भावसङ्गत्यायं तृतीयपाद आरभ्यते । सगुणवि- द्यायश्चित्तैकाग्रयद्वारा निर्गुणवाक्यार्थज्ञानोपयोगित्वात् तद्वाक्यार्थज्ञानचिन्ता क्रि- यत इति मन्तव्यम् । तत्र तावत् पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वनरोपासनास्वरूप- माह- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥ अस्य पादान्तरत्वान्नाव्यवहिताधिकरणेन सङ्गत्यपेक्षा । अत्र पूर्वपक्षे उपा- सनाभेदागुणानुपसंहारः, सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः । अत्रे तूक्तोपास- नानि कि प्रतिशास्त्रं भिद्यन्ते, उत नेति सन्देहे नामरूपादिभेदाद् मिद्यन्त इति पूर्वः पक्षः । सिद्धान्तस्तु सर्वैर्वेदान्तैः प्रत्ययं प्रतीयमानान्युपासनानि न मिद्यन्ते, कुतः, चोदनाद्यविशेषाद् आदिपदेन कर्माभेदहेतुत्वेनोपन्यस्ताः संयोगरूपसमाख्या गृह्यन्ते, चोदनासंयोगरूपसमाख्यानामविशेषात् । तत्र यथा सर्वशाखासु 'अग्निहोत्रं जुहुयात्' (मै. ६-२६) इति चोदनाया अविशेषान्नित्याग्निहोत्रमेकमेव, तथा 'यो ह वै ज्येष्ठं च श्रेष्ठं च प्राणं वेद' (बृ. ६-१-१ । छा. ५-१-१) इत्यादिचोदना- याश्छन्दोगानां वाजसनेयिनां चाविशिष्टत्वादेकैव प्राणविद्या सर्वेषां शाखिनामिति " १. ‘ सिद्धम् 'खपुस्तकें पाठः २. 'त्र चोक्तो' ख पुस्तके पाठः ३. 'प्राणं' इति पदं मु द्वितोपनिषदादौ न दृश्यते.