तृतीयाध्याये तृतीयः पादः । ११३ गम्यते । यः प्राणोपासकः स 'ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति' (वृ. ६-१-१) इति फलसंयोगस्य सर्वत्राविशिष्टत्वाच्च न विद्याभेदः । ज्येष्ठत्वादिगुणकप्राणस्योपास्य- रूपस्य सर्वत्राविशिष्टत्वाच्च तथा 'प्राणविद्ये'ति समाख्यायाः सर्वत्राविशिष्टत्वाच्च न विद्याभेद इति सिद्धम् ॥ १ ॥ भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥ ननु वाजसनेयिनः पञ्चाग्निविद्यायां ‘तस्याग्निरेवाग्निर्भवति' (बृ. ६-२-१४) इति षष्ठं प्रसिद्धाग्निमुपास्यत्वेनामनन्ति, छन्दोगांस्तु 'पञ्चाग्नीन् वेद' (छा. ५- १०- १०) इति । तथा च रूपभेदादामिक्षावाजिनयागयोरिव शाखाद्वये पञ्चाग्नि- विद्याया भेदान्नैक्यमिति चेन्न, यत एकस्यामपि विद्यायामयं रूपभेद उपपद्यते । तथा हि ये द्युलोकादयः पञ्चाग्नयः वाजसनेयशाखायामुक्ताः, त एव छान्दोग्ये प्रत्यभिज्ञायन्ते । तथा च न विद्याभेदो युक्तः । न च षष्ठ| नितदभावाभ्यां भेदः, एकस्मिन्नेवातिरात्रे षोडाशग्रहणतदभावयोर्दशनात् । यद्वानेकगुणप्रत्यभिज्ञानुरोधा- च्छान्दोग्ये षष्ठानेरुपसंहारः कर्तव्यः | नचाग्निषु पञ्चत्वसंख्या श्रवणविरोधः, तस्य साम्पादिकाग्निपरत्वादिति भावः ॥ २ ॥ ननु ब्रह्मविद्याप्रतिपादकमुण्डकाध्ययने शिरोवताख्यधर्मो विहितो, नान्य.. त्र । अतो धर्मभेदाद्विद्याभेद इत्याशङ्कयाह — स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच सववच्च तन्नियमः ॥ ३ ॥ स्वाध्यायस्यैव शिरोत्रताख्यधर्मोऽङ्गं, न विद्यायाः । कुतः, तथात्वेन हि, यतः स्वाध्यायाङ्गत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्थे शिरोव्रतमपि वेदव्रतत्वेना- थर्वणिकाः समामनन्ति । अधिकाराच्च, 'नैतदचीर्णव्रतोऽधीते' (मु. ३-२-११) इत्यत्रत्यादधिकृतविषयादेतच्छब्दात्, चकाराद् 'अधीत' इत्यध्ययनशब्दाच्च शि- रोव्रतमध्ययनस्याङ्गम् । तत्र दृष्टान्तः - सववच्च तन्नियमः, यथा सवाः सप्त होमाः सौर्यादयः शतौदनान्ताः शाखान्तरोक्तत्रेताग्न्यसम्बन्धादाथर्वणोक्तैकाग्निस- म्बन्धाच्चैकामी नामाथर्वणिकानामेव नियम्यन्ते, तद्वत् तन्नियमः, मुण्डकाध्ययन एव तस्य शिरोव्रतस्य नियमः | तस्मात् सर्वत्र विद्यैक्यमनवद्यम् ॥ ३ ॥ १. 'गाव प' ख पुस्तके पाठः.
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति