ब्रह्मसूत्रवृत्तौ ब्रह्मतखप्रकाशिकायां किश्च- दर्शयति च ॥ ४ ॥ ‘सर्वे वेदा यत्पदमामनन्ति’ (क. २०१५) इति वाक्यं निर्गुणस्य ब्रह्मणो वेद्यस्य सर्ववेदान्तेष्वेकत्वेनं तद्विद्यायाः सर्वत्रैकत्वं दर्शयति । तथा वाजसनेयके सगुणस्य ब्रह्मणो वैश्वानरस्य प्रादेशमात्रत्वेन सम्पादितस्य छान्दोग्ये सिद्धवदु- पादानं 'यस्त्वेतमेवं प्रादेशमात्रम् अभिविमानमात्मानं वैश्वानरमुपास्ते' (छा. ५- १८- १) इति । तदपि सर्वत्र वैश्वानरविद्याया एकत्वं दर्शयति । एवं च सगुणस्य निर्गुणस्य वा ब्रह्मण एकत्वेन सर्वत्र श्रूयमाणत्वात् तत्तद्विद्याया एकत्वं तथा शस्त्र- विशेषरूपोक्थादीनामेकत्वेन सर्वत्र श्रयमाणत्वात् तदुपासनानामप्यैक्यमिति तत्- समभिव्याहारादितरेषामप्युपासनानामभेद इति सिद्धम् ॥ ४ ॥
- २ उपसंहाराधिकरणम् *
पूर्वं सर्वशाखासु विद्यैक्यमैवादि । अधुना तत्फलमुच्यत इति फलफलि- भावसङ्गत्येदमाह - उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॥ ५ ॥ अत्र पूर्वपक्षे पूर्वाधिकरणस्य विवक्षितफलासिद्धिः, सिद्धान्ते तस्य तत्सि - द्धिरिति फलभेदः । सर्वत्रोपासनानामेकत्वेऽप्ये कशाखास्थविद्यायां शाखान्तरस्थायि गुणानामुपसंहारोऽस्ति नवेति सन्देहे यत्र यावन्तो गुणाः श्रुतास्तैरेवाकाङ्क्षाशा- न्तेर्नोपसंहार इति पूर्वः पक्षः । सिद्धान्तस्तु समान उपासने गुणोपसंहारो युक्तः । कुतः, अर्थाभेदाद् उपास्यगुणैर्निर्वर्त्यस्योपासनरूपार्थस्य सर्वशाखास्वभिन्नत्वात् । तत्र दृष्टान्तः विधिशेषवद्, यथाग्निहोत्रस्य सर्वत्रैक्यात् तच्छेषाणामुपसंहारस्तद्व- दित्यर्थः ॥ ५ ॥
- ३ अन्यथात्वाधिकरणम् *
पूर्वं 'चोदनाद्यविशेषाद्' (ब्र. सू. ३-३-१) इत्यत्र समाख्याया अविशे- षाद्विद्यैक्यमित्युक्तम् । तर्ह्यत्राप्युद्गीथविद्येति समाख्याया अविशेषाद्विद्यैक्यमेवेति दृष्टान्तसङ्गत्येदमाह-- १. 'न विद्यायाः' ख पुस्तके पाठः. २. 'त्वादुपास' ख पुस्तके पाठः ३. 'मुपापादि' ख पुस्तके पाठः.