ब्रह्मसूत्रवृत्तौ ब्रह्मतत्यप्रकाशिकायां व्याप्तेश्च समञ्जसम् ॥ ९ ॥ अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अत्र ‘ओमित्येतदक्षरमुद्गीथम्' इत्योङ्कारोद्गीथशब्दयोः सामानाधिकरण्यं श्रूयते । तत् किं 'नाम ब्रह्मे' तिवदध्यासार्थम्, उत 'यद्रजतं सा शुक्तिरि' तिवदपवादार्थम्, आहोस्वित् 'सिन्धुरः करी' तिवदैक्यप्रमित्यर्थम्, उताहो 'नीलोत्पलाम'तिवद्विशेषण- विशेष्यभावनिबन्धनमिति संशये निर्धारणे कारणाभावादनिर्धारणार्थकैमिदमिति पूर्वः पक्षः । सिद्धान्तस्तु ओङ्कारस्य ऋग्यजुस्सामसु त्रिषु व्याप्तेर्व्याप्तत्वात् क ओ- ङ्कार उपास्य इत्यपेक्षैयोद्गीथावयवत्वेनोङ्कारो विशेष्यते 'ओमित्येतदक्षरमुद्गीथमुपा- सीते'ति । एवञ्चोद्गीथमित्योङ्कारस्य विशेषणमित्येव समञ्जसं निरवद्यम् । सौत्रच- शब्देन तुशब्दस्थाननिवेशिनाध्यासापवादैक्यपक्षाणां निरासः । न तावदध्यास- पक्षः, तस्योत्तरत्र विधीयमानोपास्त्यपेक्षया पृथक्फलकल्पनाप्रसङ्गात् । नाप्यपवा- दपक्षः, ओङ्कारोद्गीथयोरन्यतरज्ञानस्य बाधकत्वादर्शनात् । नाप्यैक्यपक्षः, ओङ्का- रोद्गीथयोः पर्यायत्वाभावात् । अतः परिशेषौद्विशेषणपक्ष एव श्रेयानिति सि - द्धम् ॥ ९ ॥ इत्याक्षेपसङ्गत्येदमाह -
- सर्वाभेदाधिकरणम् *
५ पूर्वमुद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवद् 'एवं विद्वान्' इति प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तिरिति दृष्टान्तसङ्गत्येदमाह- सर्वाभेदादन्यत्रेमे ॥ १० ॥ O अत्र पूर्वपक्षे गुणानुपसंहारः, सिद्धान्त उपर हार इति फलभेदः । अत्र बाजसनेयके छान्दोग्ये च प्राणविद्यायां वागादयो वसिष्ठत्वादिगुणाः श्रूयन्ते, न कौषीतक्यादिशाखासु । तत्र किं वसिष्ठत्वादिगुणा अन्यत्रोक्ता अन्यत्र नोपसंड्रियन्ते, उतोपसंह्वियन्त इति सन्देहे नोपसंहर्तव्या इति पूर्वः पक्षः । सिद्धान्तस्तु अन्यत्र व- सिष्ठत्वादिगुणानामश्रवणस्थल इमे वसिष्ठत्वादयो गुणाः उपसंहर्तव्याः, कस्मात्, सर्वाभेदात् सर्वासु शाखासु प्राणसंवादस्थायाः प्राणविद्याया अभिन्नत्वात् । अत एव प्रकृतगुणानामिवाप्रकृतगुणानामपि बुद्धिस्थतयैवंशब्दग्राह्यत्वात् सर्वे सर्वत्रोप- संहर्तव्या इति सिद्धम् ॥ १० ॥ २. 'क्षायामुद्गी' ख पुस्तके पाठः, १. 'कमिति' ख पुस्तके पाठ:. ३. 'षत्वाद्वि' क पुस्तके पाठः, C