तृतीयाध्याये तृतीयः पादः ।
- ६ आनन्दाधिकरणम् *
११७ ननु प्राणस्य सविशेषत्वाद् भवेच्छाखान्तरीयवसिष्ठत्वाद्युपसंहारः । ब्रह्म- णस्तु निर्विशेषत्वात् स्वशाखागतधर्मैरेव प्रमितिसिद्धेर्न शाखान्तरगतानन्दाद्युपसं- हार इति प्रत्युदाहरणसङ्गत्येदमाह -- आनन्दादयः प्रधानस्य ॥ ११ ॥ अत्र पूर्वपक्षे आनन्दादिगुणानुपसंहाराद्वाक्यार्थानिर्धारणं, सिद्धान्ते तन्नि- र्धारणमिति फलभेदः । अत्र निर्गुणब्रह्मपरासु श्रुतिषु आनन्दस्वरूपत्वादयो धर्माः क्वचित् क्वचिच्छूयन्ते । ते किं सर्वत्रोपसंहर्तव्या उत नेति सन्देहे नोपसंहर्तव्या इति पूर्वः पक्षः । सिद्धान्तस्तु प्रधानस्य ब्रह्मण आनन्दादय आनन्दस्वरूपत्वादयो धर्माः सर्वत्रोपसंहर्तव्याः, कस्मात्, सर्वाभेदादेव, सर्वशाखासु वेद्यस्य ब्रह्मण एकत्वेन विद्याया एकत्वादित्यर्थः ॥ ११ ॥ ननु यदि ब्रह्मण एकत्वादानन्दायुपसंहारः, तर्हि प्रियशिरस्त्वादिधर्मोपसं- हारोऽपि स्यादित्याशङ्कयाह- प्रियाशरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ प्रियशिरस्त्वादिधर्माणां न सर्वत्र प्राप्तिः । हि यस्मात् प्रियमोदप्रमोदान- न्दानां परस्परापेक्षयोपचयापचयौ वृद्धिक्षयावनुभूयेते । तौ च धर्मिभेदे सत्येव स्वाभाविकौ भवतः ब्रह्मणस्तु निर्भेदत्वात् । एतेन संयद्वामत्वादयो ब्रह्मधर्मा ब्या- ख्याताः, तेषामप्युपास्यगुणत्वाविशेषात् ॥ १२ ॥ ज्ञानोपयोगित्वादानन्दादीनां संयद्वामत्वादिधर्मेभ्यो वैषम्यमाह- इतरे त्वर्थसामान्यात् ॥ १३ ॥ , उपास्यधर्मापेक्षया इतरे त्वानन्दादयो धर्मा ज्ञानैकफलाः सर्वत्रोपसंह्रयन्ते । कुतः, अर्थसामान्याद्, अर्थस्य प्रतिपाद्यस्य ब्रह्मणः सामान्यादेकत्वादित्यर्थः । एवं चान्तरेणोपसंहारं यथावद् ब्रह्मस्वरूपविषयकमहावाक्यार्थज्ञानसाध्याया अविद्यानि- वृत्तेरसम्भवात् सर्वत्रानन्दादय उपसंहर्तव्या इति सिद्धम् ॥ १३ ॥ ७ आध्यानाधिकरणम् पूर्वत्र ब्रह्मस्वरूपाणामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानोपायत्वमभिहितम् । १. 'भवतु शाखा' ख पुस्तके पाठ:.