तृतीयाध्याये तृतीयः पादः । आत्मशब्देन परमात्मन एव गृहीतिग्रहण नान्यस्य, इतरवत्, यथा इतरेषु सृष्टि- वाक्येषु 'आत्मन आकाशः सम्भूतः' (तै. २-१-१) इत्यादिषु आत्मशब्देन पर- मात्मन एव ग्रहणं, तद्वदत्रापि । कुतः, उत्तरात्, ‘स ईक्षत लोकान्नु सृजा' इति । ‘स इमाँल्लोकानसृजत’ (ऐ. १-१, २) इतीक्षणपूर्वकस्रष्टृत्वरूपोत्तरविशेषणादित्यर्थः । तच्च विशेषणं परमात्मन्येव मुख्यत्वेन श्रुत्यन्तरेष्ववगतमिति भावः ।। १६ ।। पूर्वपक्षवीजमनूद्य दूषयति- अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ लोकसृष्टिवाक्यपर्यालोचनया हिरण्यगर्भ एव वाक्यान्वयान्न परमात्म- ग्रहणं युक्तमिति चेदनाह - परमात्मन एव ग्रहणं युक्तं स्यात् । कुतः, अवधारणाद् 'आत्मा वा इदमेक एवाग्र आसीद्' (ऐ. १-१) इति सृष्टेः प्रागेकत्वावधारणस्य परमात्मन्येवाजसत्वात् । ततश्चात्र शाखान्तरोक्तभूतसृष्टिरुपसंहर्त्तव्येत्यदोषः ॥ प्रथमवर्णकम् ।। १७ ।। पूर्वत्र वाक्यैक्यबलादर्थादिपरत्वं परित्यज्य विद्यैक्यमवादि । इह तूपक्रम- भेदेन वाक्यभेदाद्विद्यैक्यं न स्यादिति प्रत्युदाहरणसङ्गत्येदमाह - आत्मगृहीतिरितरवदुत्तरात् । अत्र पूर्वपक्षे विद्याभेदाद् गुणानुपसंहारः, सिद्धान्ते तदभेदादुपसंहार इति फलभेदः । बृहदारण्यके (४-३-७) 'कतम आत्मे' त्यात्मशब्देनोपक्रम्य 'स वा एष महानज आत्मा' (बृ. ४-४-२२) इत्यात्मशब्देनोपसंहृतम् । छान्दोग्ये तु 'स देव' (छा. ६-२-१) इति विनैवात्मशब्दं सन्मात्रमुपक्रम्य ‘स आत्मा तत्त्वमसि' (छा. ६-८-७) इत्युपसंहृतम् । तत्र किमनयोर्वाक्ययोस्तुल्यार्थत्वमुत भिन्नार्थत्व- मिति संशये भिन्नार्थत्वमिति पूर्वः पक्षः । सिद्धान्तस्तु छान्दोग्ये सत्पदेनात्मन एव गृहीतिरितरवद् बृहदारण्यके आत्मपदेनात्मग्रहणवत्, कुतः, उत्तरात् 'स आत्मे ' त्युपसंहारबलात् । अत उभयत्र तुल्यार्थत्वमित्यर्थः ॥ १६ ॥ अन्वयादिति चेत् स्यादवधारणात् || ननुपसंहारबलात् सत्पदेनात्मगृहीतिरित्य सङ्गतम् । उपसंहारस्योपक्रमान्व- यादुपक्रमपरतन्त्रत्वादिति चेत्राह - सत्पदेनात्मगृहीतिर्युक्ता स्यात्, कुतः, ‘सदेवे’ त्याद्वतीयत्वावधारणादित्यर्थः ॥ द्वितीयवर्णकम् ॥ १७ ॥ ४ १. 'व समझस' खपुस्तके पाठः, २. 'तत्राह' ख पुस्तके पाठः.
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति