तृतीयाध्याये तृतीयः पादः रण्यके तदनुवादेन सर्वेशानत्वादयो गुणा विधीयन्त इत्युभयत्र शाण्डिल्यविद्यैक्य- मिति सिद्धम् ।। १९ ।।
११ सम्बन्धाधिकरणम् * पूर्वेण दृष्टान्तसङ्गत्येदमाह -- सम्बन्धादेवमन्यत्रापि ॥ २० ॥ अत्र पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं, सिद्धान्ते यथाश्रुत्येकैकनामानुष्ठान- मिति फलभेदः । बृहदारण्यके सत्यविद्यायामाधिदैविकपुरुषस्यादित्यस्याहरित्येतन्नाम ध्यानायोपदिष्टम्, आध्यात्मिकस्य त्वक्षिपुरुपस्याहमित्येतन्नामेति । तत्र किमस्यां सत्यविद्यायां नाम्नोर्व्यवस्थया ध्यानं कर्त्तव्यमुत नामद्वयस्य प्रतिस्थानं ध्यानमिति संशये यथा शाण्डिल्यविद्याया मेकशाखायां विभागेनाधीताया मेकविद्यात्वसम्बन्वाद- न्योन्यं गुणोपसंहारः पूर्वमुक्तः, एवमन्यत्रापि सत्यविद्यायां भवितुं युक्तम् एकविद्या- त्वसम्बन्धादिति पूर्वः पक्षः ॥ २० ॥ सिद्धान्तस्तु - न वा विशेषात् ॥ २१ ॥ नैवोभयोरुभयत्रोपसंहारः । कुतः, विशेषात् । 'तस्याहरि'ति 'तस्याहमि' - ति चायतनविशेषणव्यपाश्रयेणैवोपनिषदोर्विशेषोपदेशात् ॥ २१ ॥ किञ्च -- दर्शयति च ॥ २२ ॥ विद्यान्तरे ‘हिरण्यश्मश्रुरि’त्यादिनादित्यपुरुषस्य रूपमुक्ता तद्रूपमक्षिपुरु- षेऽतिदिशति ‘तस्यैतस्य तदेव रूपं यदमुप्य रूपम्' (छा. १-७-५) इति । सोऽयमतिदेशो विद्यास्थले स्थानभेदान्नोपसंहार इति दर्शयति । इतरथायमतिदेशो निरर्थक एव स्यात् । अतो नाम्नोर्व्यवस्थेति सिद्धम् ॥ २२ ॥
- १२ सम्भृत्यधिकरणम् ॐ
पूर्वोक्तन्यायमतिदिशति- सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥ अस्यातिदेशत्वान्न पृथक् सङ्गत्यपेक्षा । अत्र पूर्वपक्षे विद्याभेदस्य गुणव्य- वस्थापकत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । राणायनीयानां खिलेषु