पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां क्वचिच्छ्रयमाणमुपायनं सर्वत्रोपसंहियते, तथा हानसन्निधौ कचिच्छूयमाणो देव- यानः पन्थाः सर्वत्रोपसंहर्तव्य इति दृष्टान्तसङ्गत्येदमाह - -- गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ॥ २९ ॥ तत्र पूर्वपक्षे निर्गुणविदोऽपि मुक्त्यर्थं मार्गापेक्षा, सिद्धान्ते त्वनपेक्षेति फल- भेदः । कर्महानिसन्निधौ क्वचिद् देवयानः पन्थाः श्रुतः, क्वचिन्न श्रुतो निर्गुण- विद्यास्थले । तत्र किं देवयानोपसंहारोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः। सिद्धान्तस्तु गतेर्देवयानस्य पथोऽर्थवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचित् सगु- विद्यायां देवयानमार्गोऽस्ति कचिन्निर्गुणविद्यायां नेति । अन्यथा सर्वत्र देवयान मार्गोपसंहाराङ्गीकारे ' विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' (मु. ३. १- ३) इति श्रुतिविरोध: स्यात् । अतो निर्गुणविद्यायां मार्गोपसंहारो व्यर्थ इत्यर्थः ॥ २९ ॥ नंनु तर्हि सगुणविद्यायामपि मार्गोपसंहारो व्यर्थः स्यादित्यत आह - उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥ गतेरुभयथा भाव उपपन्नस्तल्लक्षणार्थोपलव्धेः सा गतिर्लक्षणं कारणं यस्य सगुणविद्याफलस्य पर्यङ्कस्थब्रह्मप्राप्तिरूपस्य स तल्लक्षणार्थः, तस्य श्रुतिषूपलब्धेः । अतः सगुणविद्यायां मार्गोऽर्थवान् न निर्गुणविद्यायाम् । लोकवद्, यथा लोके सेतु-. वासिनां गङ्गाप्राप्त्यर्थ मार्गोऽपेक्षितो न गङ्गास्थानां, तद्वदित्यर्थः ॥ ३० ॥ , १८ अनियमाधिकरणम् * पूर्व सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्था यथोक्ता, तथा सगु- गविद्यास्वपि व्यवस्थास्त्विति दृष्टान्तसङ्गत्येदमाह - SEX अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ अत्र पूर्वपक्षे नियतस्य मार्गस्यानुपसंहारः, सिद्धान्ते त्वनियतस्योपसंहार इति फलभेदः । सगुणोपासनेषु कचित् पञ्चाग्न्युपासनादिषु मार्गः श्रूयते, कचितु वैश्वानरादिषु न श्रूयते । तत्र किं येषु मार्गः श्रुतस्तेषामेव तस्य नियमः किं वा सर्वेषामनियम इति सन्देहे विद्याविशेषप्रकरणान्नियम इति पूर्वः पक्षः । सिद्धान्तस्तु १. 'ननु स' कपुस्तके पाठः. २. 'सर्वासामविरोधः' इत्येव तु मुद्रितभाष्यादिषु पाठः.