ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अक्षरधियान्त्ववरोधः सामान्यतद्भावाभ्या- मौपसदवत्तदुक्तम् ॥ ३३ ॥ अत्र पूर्वपक्षे श्रुतैरेव निषेधैरुपलक्षणतया सर्वानिषेधे निर्विशेषब्रह्मप्रमितौ लाघवं, सिद्धान्ते तूपलक्षणैकदेशपरिशेषौ परित्यज्य निर्विशेषप्रमितौ नैराकाङ्क्ष्य- मिति फलभेदः । बृहदारण्यकें (३-८-८) श्रूयते - 'एतद्वै तदक्षरं गार्ग ब्रा- ह्मणा अभिवदन्त्यस्थूलमनण्वि'त्यादि । एवमाथर्वणे अक्षरमुपक्रम्य 'यत्तदद्देश्य- मग्राह्यम्' (मु. १-१-५) इत्यादि । तत्र किं क्वचिन्निषेधश्रुतावश्रुतानिषेधानां श्रुत्यः न्तरादुपसंहारोऽस्ति न वेति सन्देहे नास्तीति पूर्वः पक्षः । सिद्धान्तस्तु अक्षरे ब्रह्मणि द्वैतनिषेधधियोऽक्षरधियः, तासां सर्वत्र निषेधश्रुतिष्यवरोध उपसंहारो न्याय्यः । कुतः, सामान्यतद्भावाभ्यां द्वैतनिरासेन ब्रह्मप्रतिपादनस्य सर्वत्र सामान्य समानत्वं, तस्य ब्रह्मणः प्रतिपाद्यस्य सर्वत्र भाव एकत्वेन प्रत्यभिज्ञायमानत्वं, ताभ्यां हेतु- भ्यामित्यर्थः । तत्र दृष्टान्त औपसदवद्, यथा जामदग्नचे अहीने पुरोडाशिनीषूप- सत्सु चोदिताना मौपसदानामध्वर्युकर्तृकपुरोडाशशेषाणां मन्त्राणां यत्र कचिच्छूता- नामध्यध्वर्युणा सम्बन्धः, तथाक्षरप्रमितिशेषाणां निषेधानां यत्र कचिच्छूतानाम- प्यक्षरेण सर्वत्र सम्बन्ध इत्यर्थः । तदुक्तं जैमिनिना प्रथमे काण्डे 'गुणमुख्यव्य- तिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग: ' (३-३-९) इति ॥ ३३
- २१
१२८ दामननाधिक पूर्व वेद्यस्याक्षरस्यैक्ये विद्यैक्यादक्षरधियामुपसंहार उक्तः | तह 'द्वा सु पर्णा' (मु. ३-१-१) इति वाक्ये एकस्यैव भोक्तृत्वम् । 'ऋतं पिबन्ती' (क. ३- १) इति वाक्ये उभयोरपीत्युभयत्र वेद्यभेदाद्विद्याभेद इति प्रत्युदाहरणसङ्गत्येद- माह - 19
इयदामननात् ॥ ३४ ॥ अत्र पूर्वपक्षे विद्याभेदादन्योन्यं गुणानुपसंहारः, सिद्धान्ते तदभेदादुपसं- हार इति फलभेदः । आथर्वणे 'द्वा सुपर्णा सयुजा' (मु. ३-१-१) इत्यादिर्मन्त्रः श्रूयते, काठकेऽपि 'ऋतं पिबन्तौ' (३-१) इत्यादिः । तत्र किमनयोर्मन्त्रयोविं- यभेद उताभेद इति विशये भेद इति पूर्वः पक्षः । सिद्धान्ते मन्त्रद्वये विद्याभेद एव । कुतः, इयत इयत्तावच्छिन्नस्य द्वित्वावच्छिन्नस्योभयत्राप्यभिन्नत्वेनामननाद् अभिधानादित्यर्थः । अत्र हि मन्त्रद्वये भोक्तृत्वानुवादेन परमात्माभेदः प्रतिपाद्यः ।