तृतीयाध्याये तृतीयः पादः । सिद्धान्तस्तु प्रदानवदेव, 'यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजा- येन्द्राय स्वराज्ञे' इतीन्द्रदेवताया एकत्वेऽपि राजाधिराजादिगुणभेदेन तद्विशिष्टदेव- ताभेदात् पुरोडाशानां प्रदानस्य प्रक्षेपस्य भेदः, तद्वदेकस्यामपि विद्यायां वायुप्रा- णयोः स्वरूपाभेदेऽप्याध्यात्मिकाधिदैविकत्वरूपावस्थाभेदेन गुणभेदात् प्रयोगभेद इति । तदुक्तं देवताकाण्डे - 'नाना वा देवता पृथग ज्ञानाद्' इति ॥ ४३ ॥
- २९ लिङ्गभूयस्त्वाधिकरणम् *
- पूर्वमेकप्रयोगायोगाद्वायुप्राणयोः प्रयोगभेदो गदितः । तर्हि मनश्चिदादीनां प्रकरणात् कर्माङ्गत्वेनैकप्रयोगसम्भवात् प्रयोगाभेद इति प्रत्युदाहरणसङ्गत्येदमाह- लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॥ ४४ ॥ १३३ अत्र पूर्वपक्षे क्रियार्थानामग्नीनां क्रियाङ्गत्वं, सिद्धान्ते पुमर्थानां तेषां केवलविद्यामयत्वमिति फलभेदः । वाजसनेयकेऽग्निरहस्ये 'षत्रिंशतं सहस्राण्यप' श्यदात्मनोऽग्नी नर्कान्मनोमयान्मनश्चितः' इत्यादि, तथैव 'वाक्चितः प्राणचित इत्यादि, मनश्चिदादयोऽग्नयः श्रूयन्ते । तत्र किमेते कर्माङ्गभूता उत स्वतन्त्रा इति सन्देहे कर्माङ्गभूता इति पूर्वः पक्षः । सिद्धान्तस्तु एते स्वतन्त्रा एव । कुतः, लिङ्ग- भूयस्त्वात् 'यत् किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ती' त्यादिस्वातन्त्र्यज्ञापक- लिङ्गानां भूयसां सत्त्वात् । तद्धि लिङ्गं प्रकरणाद्वलीयः । तदपि बलीयस्त्वमुक्तं पूर्वकाण्डे – ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्र- कर्षाद्’ (जै. सू. ३-३-१४) इति ॥ ४४ ॥ इत्थं सिद्धान्तमुपक्रम्य पूर्वपक्षयति- पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ॥ ४५ ॥ सङ्कल्पात्मका मनश्चिदादयोऽग्नयो न स्वतन्त्राः । किन्तु 'इष्टकाभिरग्नीश्चि- नुते' इति प्रकृतस्य पूर्वस्य क्रियामयस्याग्नेरयं विकल्पः सङ्कल्पात्मकोऽग्निः प्रकर- णात् क्रिया क्रियामय एव स्यात् । न च लिङ्गादग्नीनां स्वातन्त्र्यं तस्य लिङ्गस्य मानसिकाग्निस्तुतिपरत्वेन विध्येकवाक्यतया स्वार्थपरत्वाभावान्न प्रकरणबाधकत्वम् । तस्मात् क्रियानुप्रवेशिन एतेऽग्नयो मानसवद् | यथा द्वादशाहे 'मनोग्रहं गृह्णाती'ति श्रुतो मानसग्रहो द्वादशाहमध्यपातिनो दशमस्याहोऽङ्ग, तथेमेऽग्नयः प्रकृतकर्मशेषा इत्यर्थः ॥ ४५ ॥ १. ‘शत्सहस्राणि’ इति मुद्रितभाष्यादिषु पाठः.