पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पादः । १३५ — स्वातन्त्र्यं मनश्चिदादीनां प्रज्ञान्तरपृथक्त्ववद् । यथा प्रज्ञान्तराणां शाण्डिल्यादि- विद्यानां स्वातन्त्र्यं तद्वत् । ननु मनश्चिदादीनां स्वातन्त्र्ये कर्मप्रकरणादुत्कर्षे को दृष्टान्त इत्यत आह - दृष्टश्च | राजसूयं प्रेस्तुत्य श्रुताया अवेष्टेब्रह्मणादिकर्तृकाया राजमात्रकर्तृकराजसूयप्रकरणादुत्कर्षो दृष्टः, तद्वदिहाप्यग्नीनां कर्मप्रकरणादुत्कर्ष इति । तदुक्तं प्रथमे काण्डे – 'ऋत्वर्थायामिति चेन्न वर्णसंयोगात्' (जै. सू. ११- ४-११) इति ॥ ५० ॥ यदवादि पूर्ववादिना मानसवन्मनश्चिदादीनां क्रियाशेषत्वमिति तद्विघट- यति - न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥ मनश्चिदादीनां मानसत्वसामान्यादपि न क्रियाशेषत्वं कल्प्यम्, उक्तश्रु- त्यादिभ्यः स्वातन्त्र्योपलब्धेर्मृत्युवद् । यथा 'स वा एष एव मृत्युर्य एष तस्मिन् मण्डले पुरुष' इति 'अग्निर्वै मृत्यु: ' (बृ. ३ २ १०) इति चामचादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः, यथा वा 'असौ वा व लोको गौ- तमाग्निस्तस्यादित्य एव समिद्' (छा. ५-४-१) इत्यादौ समिदादिसाम्यान्न धुलो- कस्याग्नित्वापत्तिः, अपि तु परस्परवैषम्यं, तद्वन्मानसमानसिकाग्नयोर्मानसिकत्वसा- म्येऽपि परस्परवैषम्यमित्यर्थः ॥ ५१ ॥ पूर्वोत्तरब्राह्मणयोः स्वतन्त्रविद्याविधानान्मध्यस्थस्यापि ब्राह्मणस्य स्वतन्त्र- विद्याविधिपरत्वमाह - - परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥ मानसिकामिब्राह्मणात् परेण ब्राह्मणेन शब्दस्य ताद्विध्यं चितेऽग्नौ लोक- दृष्टिरूपस्वतन्त्रविद्याविधित्वमेव प्रतीयते । चकारात् पूर्वेणापि ब्राह्मणेन मण्डल- पुरुषोपास्तिरूपस्वतन्त्रविद्याविधित्वमेव दृश्यते । तत्सान्निध्यान्मध्यस्थेनापि ब्राह्मणेन मानसामानां स्वतन्त्रविद्यात्वं बोध्यम् । ननु तर्हि कस्मात् क्रियाग्निना सहपाठ इत्यत आह - भूयस्त्वात् त्वनुबन्धः । तुः शङ्कानिरासार्थः । कर्माङ्गानां मान- साग्निविद्यायां सम्पाद्यानां बहुत्वाद् विद्यायाः क्रियाभिनानुबन्धः सहपाठः । तस्मादियं मानसाग्निविद्या स्वतन्त्रपुरुषार्थे हेतुरिति सिद्धम् ॥ ५२ ॥ - १. 'त्कर्षः क्व दृष्टः' क पुस्तके पाठः २. 'प्रकृत्य' ख पुस्तके पाठः ३. 'नसत्व' ख पुस्तके पाठः,