तृतीयाध्याये तृतीयः पादः । १३७ लम्बना इति पूर्व: पक्षः । सिद्धान्तस्तु सौत्रतुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । अङ्गाववद्धा •• अङ्गाश्रिता एता उपासनाः प्रतिवेदं स्वस्वशाखासु विद्यमानोगीथाद्यालम्बना एव न भवन्ति, किन्तु शाखान्तरीयोद्गीथाचालम्बना अपि । कस्माद् । हिशब्दो हेतौ ‘उद्गी- थमुपासीत' (छा. १-१-१) इत्यादाबुद्गीथादिश्रुतेरविशेषाद्धेतोरित्यर्थः ॥ ५५ ॥ इममर्थं दृष्टान्तमुखेनापि स्पष्टयति- मन्त्रादिवाविरोधः ॥ ५६ ॥ एकशाखाविहितोद्गीथादीनां शाखान्तरगतोद्गीथादिषु प्राप्तेरविरोधो मन्त्र - वद् | यथा तण्डुलपेषणार्थमश्मादानमन्त्रस्य 'कुटरुरसी'त्येकत्राम्नातस्य शाखान्त - रेऽपि प्राप्तेरविरोधः, तद्वत् । वाशब्दो दृष्टान्त प्रदर्शनरूपहेत्वन्तरप्रदर्शनार्थः ॥ ५६ ॥
- ३२ भूमज्यायस्त्वाधिकरणम् *
पूर्वं यथोद्गीथादिश्रुत्या सन्निधिप्राप्तव्यवस्थां बाधित्वोद्गीथायुपास्तीनां स- र्वशाखासु व्यवस्था स्थापिता, तद्वदिहापि व्यवस्था व्यस्तोपास्तीनां विधिया समस्तोपास्तिसन्निधिप्राप्तं स्तुत्यर्थत्वं बाधित्वेति दृष्टान्तसङ्गत्येदमाह - भूम्नः ऋतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥ अत्र पूर्वपक्षे वाक्यभेदः, सिद्धान्ते तैदक्यमिति फलविवेकः । वैश्वानराख्या- यिकायां युलोकसूर्यवाय्वादिषु व्यस्तेषु तथा समस्तेष्वपि मूर्धचक्षुः प्राणादिषु वैश्वा-
- नरोपास्तिः श्रुता । सा किमिहोभयथोपातिर्विवक्षिता उत समस्तोपास्तिरेवेति विशय
उभयथोपास्तिरिति पूर्वः पक्षः । सिद्धान्तस्तु भूनः समस्तोपासनस्यैवास्मिन् वाक्ये ज्यायस्त्वं प्राधान्येन प्रतिपाद्यत्वं, न व्यस्तोपास्तीनामपि । कंतुवद्, यथा दर्शपू- र्णमासादेः क्रतोः साङ्गप्रधानस्यैकस्यैव प्रयोगो विवक्ष्यते न व्यस्तानामपि प्रया- जादीनां तद्वत् । ननु भूम्न एव ज्यायस्त्वं कस्मादित्यत आह • तथा हि दर्श- यति । प्राचीनशालादिभिरुक्तानि व्यस्तोपासनानि निन्दित्वा कैकेयेन राज्ञा समस्तो- पासनस्योक्तत्वादेकवाक्यता श्रुतेरवगम्यते । एवञ्चैकवाक्यतामापन्नेयं श्रुतिर्भून एव ज्यायस्त्वं दर्शयति । ननु 'कं त्वमात्मानमुपास्से' (छा. ५.१२-१) इत्या- दिव्यस्तोपास्तैिश्रुतीनां का गतिरिति चेत् । न । व्यस्तोपासनानुवादेन समस्तोपास- नस्य विधेयत्वादनुवादकत्वमेव गतिरित्यतः समस्तोपासनमेव ज्याय इति सि- द्धम् ॥ ५७ ॥ - १. ‘स्तिविधिनु’ खपुस्तके पाठः २. 'दत्व' कपुस्तके पाठः