तृतीयाध्याये तृतीयः पादः । वा, न वा समुच्चीयेरन् । कुतः, पूर्वहेतोरविशिष्टफलत्वस्य विकल्पप्रयोजकस्यात्रा- भावादित्यर्थः ॥ ६० ॥
- ३६ यथाश्रयभावाधिकरणम्
पूर्वं यथा प्रतीकोपात्तीनां स्वतन्त्रत्वाद्यथाकाममनुष्ठानं, न तथेहाङ्गाश्रितो- पास्तीनामङ्गतन्त्रत्वादिति प्रत्युदाहरणसङ्गत्येदमाह - अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ अत्र पूर्वपक्षे समुच्चयानुष्ठानात् फलबाहुल्यं, सिद्धान्ते यथाकाम मनुष्ठानात् प्रयोगसौकर्यमिति फलभेदः । याश्च कर्माजोगीथाश्रिता विद्याः, तासु समुच्चयेनैवानु- ष्ठानम् उत यथाकाममिति विशये पूर्वः पक्षः । अङ्गेषु यथाश्रयभावः । यथा ऋतु- वाश्रितानामङ्गानां समुच्चित्यानुष्ठाननियमः, तथाङ्गेष्वाश्रितानामुपास्तीनामाश्रयभावः समुच्चित्यानुष्ठानानेयम इत्यर्थः ॥ ६१ ॥ ननु तर्हि गोदोहनस्यापि समुच्चयनियम: स्यादित्यत आह शिष्टेश्च ॥ ६२ ॥ शिष्टेः शासनाद्विधानाद्विहितत्वाविशेषादङ्गवत्समुच्चय इत्यर्थः । गोदोह- नस्य चमसे विहितत्वान्न समुच्चयानुष्ठाननियमः | उपास्तीनां तु कस्यचिदङ्गस्य स्थानेऽविहितत्वात् समुच्चयनियमो न विरुद्ध इति भावः ॥ ६२ ॥ समुच्चये लिङ्गमाह - समाहारात् ॥ ६३ ॥ ' होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति' (छा. १-५-५) इति ऋग्वेदोक्त- प्रणवस्य सामवेदोक्तोद्गीथेनैक्योपास्तिबलादुद्गात्रा प्रमादाद् दुष्टस्याप्युद्गीथस्य सम्य- क्कृतहोतृशंसनतः समाहारान्निर्दोषत्वकरणादित्यर्थः । एवञ्च वेदद्वयोक्तप्रणवोद्गी- थयोरैक्यज्ञानस्यैतादृशं फलं ब्रुवद्वाक्यं सर्ववेदोक्तानामप्याश्रितोपातीनां सम्ब- न्वसामान्यात् समुच्चये लिङ्गमिति भावः ॥ ६३ ॥ लिङ्गान्तरमाह — गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ 13 'तेनेयं त्रयी विद्या वर्तते' (छा. १-१-९) तेन ओङ्कारेण वेदत्रयोक्तं कर्म भवतीत्युद्गीथोपास्तौ गुणभूतस्योपास्यस्योङ्कारस्य सर्वकर्मणि साधारण्यश्रवणात् त- दाश्रितोपास्तीनामपि साधारण्यं समुच्चयानुष्ठानमित्यर्थः ॥ १. 'रुध्यत इ' खपुस्तके पाठः,