तृतीयाध्याये चतुर्थः पादः । पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥ अत्र पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः, सिद्धान्ते केवलज्ञानान्मुक्ति- रिति फलभेदः । अत्र परब्रह्मविद्या विषयः । सा कर्तृद्वारा ऋत्वनुप्रवेशिनी उत · स्वतन्त्रैव पुरुषार्थसाधिकेति विशये ऋत्वनुप्रवेशिनीति पूर्वः पक्षः । सिद्धान्तस्तु अतोऽस्मादौपनिषदात्मज्ञानात् स्वतन्त्रात् पुरुषार्थो मोक्षः सिद्ध्यतीति बादरायण आचार्यो मन्यते । कुतः, 'तरति शोकमात्मवित्' (छा. ७-१-३) 'ब्रह्म वेद ब्रह्मैव भवति' (मु. ३-२-९) इत्यादेः केवलाया विद्याया मोक्षहेतुत्वबोधकशब्दादित्यर्थः । इदमुपलक्षणम् । सगुणविद्यानामपि स्वातन्त्र्येण फलहेतुत्वं तत्तत्फलश्रुतेरिति बो- ध्यम् ॥ १ ॥ इत्थं सिद्धान्तमुपक्रम्य पूर्वपक्षयति--- शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ कर्तृत्वेनात्मनः कर्मशेषत्वात् तज्ज्ञानमपि पर्णतावत् कर्मशेषात्मद्वारा क्र- त्वङ्गं फलशून्यत्वे सति कर्माङ्गाश्रयत्वात् । ननु विशेषणासिद्धो हेतुः 'तरति शो- कमात्मविदि’त्यादिफलश्रुतेरित्यत आह - पुरुषेत्यादि । यथान्येषु द्रव्यसंस्कारकर्मसु अपापश्लोकश्रवणादिफ्फलश्रुतिरर्थवादः, तथात्रापि पुरुषार्थ श्रुतिरर्थवाद इति जैमि- निराचार्यो मन्यते । ततश्च न हेतोर्विशेषणासिद्धिरिति भावः ॥ २ ॥ - आचारदर्शनात् ॥ ३ ॥ 'जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे' (बृ. ३-१-१) इत्यादौ ब्रह्मविदां जनकादीनां विद्यया सह कर्माचारदर्शनाद्विद्यायाः कर्माङ्गत्वमित्यर्थः ॥ ३ ॥ तच्छ्रुतेः॥ ४॥ 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' (छा. १- १-१०) इति तृतीयाश्रुत्या विद्यायाः तस्य कर्मशेषत्वस्य श्रवणादित्यर्थः ॥ ४ ॥ समन्वारम्भणात् ॥ ५ ॥ १. 'वलविद्या' कपुस्तके पाठः २. 'ह्मवादिनां जन' खपुस्तके पाठः.
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति