ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां 'तं विद्याकर्मणी समन्वारभेते' (बृ. ४-४-२) इति च फलारम्भे विद्याकर्म- •णोः साहित्यदर्शनाद् विद्यायाः कर्माङ्गत्वमित्यर्थः ॥ ९॥ तद्वतो विधानात् ॥ ६ ॥ १४२ 'आचार्यकुलाद्वेदमधीत्य' (छा. ८-१५-१) इत्यादिश्रुत्या सकलवेदार्थज्ञा- नैविद्यावतः कर्मविधानादपि लिङ्गात् कर्माङ्गत्वं विद्याया इत्यर्थः ॥ ६ ॥ नियमाच्च ॥ ७ ॥ ‘कुर्वन्नेवेद् कर्माणि जिजीविषेच्छतं समाः' (ई. २) इत्यादिकाद् यावज्जीवं कर्माचारनियमाच्च ब्रह्मविद्यायाः कर्मशेषत्वमेवेत्यर्थः ॥ ७ ॥ इत्थं षड्भिः सूत्रैः पूर्वपक्षे प्राप्ते दशभिः सूत्रैः सिद्धान्तयति- अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥ तुः पूर्वपक्षनिरासार्थ: । यदवादि पूर्ववादिना तत्त्वज्ञानं कर्माङ्गं फलशू- न्यत्वे सति कर्माङ्गाश्रयत्वादिति तन्न | हेतोविंशेप्यासिद्धेः । कस्माद्विशेप्यासिद्धिः, अधिकोपदेशात् । यः कर्मकर्त्ता तदङ्गभूतः सन् संसारी तस्मादधिकस्याकर्त्तुरसंसा- रिणश्चिन्मात्रस्य वेदान्तेषूपदेशात् । ततश्च तत्त्वज्ञानं चिन्मात्राश्रयमेवेति भवति विशेप्यासिद्धिः । एवञ्च तत्त्वज्ञानफलश्रुतेर्नार्थवादत्वम् । तस्माद् एवं यन्मतं भ गवतो बादरायणस्य तत् तथैवेति व्यवस्थितम् । न चाधिकोपदेशासिद्धिरिति सा- म्प्रतं, तद्दर्शनात् तस्याधिकस्य चिन्मात्रस्य 'यः सर्वज्ञः सर्वविद् (मु. १-१-९) इत्यादिश्रुतिसहस्रेषु दर्शनादित्यर्थः ॥ ८ ॥ यदुक्तमाचारदर्शनादिति तत्राह- , तुल्यं तु दर्शनम् ॥ ९ ॥ तत्त्वज्ञानस्य कॅर्मशेषत्वाभावेऽप्याचारदर्शनं तुल्यमेव 'एतद्ध स्म वै तत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चकिरे' इत्यादिका श्रुतिरात्मविदां कर्माचाराभावं दर्श- यति । तुशब्देनाकर्माङ्गलिङ्गदर्शनस्य प्राबल्यं सूचितम् । जनकादीनां त्वहमभिमा- नाभावेन तत्कृतकर्मणोऽकर्मतया तदाचारदर्शनस्य दौर्बल्यमिति ध्येयम् ॥ ९ ॥ १. 'इति फ' खपुस्तके पाठः २. 'नादपि वि' खपुस्तके पाठः ३. 'नवतः' खपुस्तके पाठः ४. 'तत्तद् ज्ञा' कपुस्तके पाठ:. ५. 'गुणशे' खपुस्तके पाठः,
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति