तृतीयाध्याये चतुर्थः पादः । यदुक्तं ‘तच्छ्रुतेरि’ति तत्राह— असार्वत्रिकी ॥ १० ॥ ‘यदेव विद्यया करोति' (छा. १-१-१०) इति श्रुतिरसार्वत्रिकी सर्वविद्या- विषया न भवति प्रकृतोद्गीथविद्यामानपरत्वात् । ततश्च न श्रुतिबलाद् ब्रह्मविद्या- याः कर्माङ्गत्वसिद्धिरित्यर्थः ॥ १० ॥ यदपि 'समन्वारम्भणादि' ति तत्राह- विभागः शतवत् ॥ ११ ॥ ‘तं विद्याकर्मणी समन्वारभेते' (वृ. ४-४-२) इत्यत्र विद्यान्यं पुरुषमन्वा- रभते कर्मान्यमिति विभागो द्रष्टव्यः । शतवद् यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वदित्यर्थः । ऐवञ्चास्य समन्वा- रम्भणवाक्यस्य संसारविषयँता, न मोक्षविषयतेति भावः ॥ ११॥ यच्च 'तद्वतो विधानादि' ति तत्राह - अध्ययनमात्रवतः ॥ १२ ॥ 00000 'आचार्यकुलाद्वेदमधीत्य' (छा. ८-१५-१) इति वाक्ये वेदाध्ययनमात्र- वतः कर्म विधीयते नौपनिषदात्मज्ञानवत इत्यर्थः ॥ १२ ॥ यत्तु 'नियमाच्चे'ति तत्राह - नाविशेषात् ॥ १३ ॥ 'कुर्वन्नेवेह कर्माणि' (ई. २) इति वाक्यं न तत्त्वविद्विषयं विद्वानिति वि- शेषाभावादित्यर्थः ॥ १३ ॥ यद्वा -- स्तुतयेऽनुमतिर्वा ॥ १४ ॥ इयं तत्त्वविदः कर्मानुमतिः कर्मानुज्ञा ब्रह्मविद्यास्तुतये ज्ञातव्या । स्तुति - श्चैवं – यावज्जीवं कर्म कुर्वत्यपि त्वयि विदुषि विद्यासामर्थ्यात् कर्मलेपो न भव- तीति बोच्यम् ॥ १४ ॥ किञ्च- १ 'न्यम' कपुस्तके पाठ:. २. 'एवमस्य' कपुस्तके पाठः, ४. 'कर्मलेपाय न' खपुस्तके पाठ: पाठ: ३. 'यतया न' खपुस्तके
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति