१४४ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां कामकारेण चैके ॥ १५ ॥ एके विद्वांसः प्रत्यक्षीकृततत्त्वज्ञानफलाः परोक्षफलकर्मसाधनं प्रजादिकं कामकारेण स्वेच्छया त्यक्तवन्त इति श्रूयते 'एतद्ध स्म वै तत् पूर्वे विद्वांसः प्रजां न कामयन्ते' (बृ. ४-४-२२) इत्यादिना | तदनेन तत्त्वज्ञानस्य कर्माङ्गत्वाभावे तत्त्वविदां स्वेच्छया प्रजादित्यागो लिङ्गं सूचितमिति बोध्यम् ॥ १५ ॥ अपि च-- उपमर्दञ्च ॥ १६ ॥ कर्मानुष्ठानहेतोः क्रियाकारकफल विभागस्य समस्तस्याविद्याक्कृतस्य विद्यासा मर्थ्यादुपमर्दमभावमामनन्ति । 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येद् ' (वृ. २-४-१४) इत्यादिना । तथा च ब्रह्मविद्यायाः कर्मविरोधित्वान्न कर्माङ्गत्व- मिति भावः ॥ १६ ॥ ब्रह्मविद्यायाः कर्मानङ्गत्वे हेत्वन्तरमाह- ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ ऊर्ध्वरेतस्सु यतिषु हि ब्रह्मविद्यावगता । न हि तस्याः कर्माङ्गत्वं सम्भवति, तेषां कर्माभावात् । न च यत्याश्रमः कापि न श्रुत इति साम्प्रतम् । शब्दे हि । 'त्रयो धर्मस्कन्वा' (छा. २-२३-१) इति प्रस्तुत्य 'ब्रह्मसंस्थोऽमृतत्वमेती'त्यस्मि- ञ्छब्दे हि यत्याश्रमस्य श्रुतत्वात् प्रामाणिकोऽयं यत्याश्रमः । तदेवं ब्रह्मविद्याया न कर्माङ्गत्वम् अपि तु स्वतन्त्रपुरुषार्थहेतुत्वमिति सिद्धम् ॥ १७ ॥ ""
- २ परामर्शाधिकरणम्
पूर्व 'त्रयो धर्मस्कन्धा' इत्यादिश्रुतिर्यत्याश्रमसद्भावे प्रमाणमित्यभाणि । तदसम्भ॑वीत्याक्षेपसङ्गत्येदमाह- परामर्श जैमिनिरचोदना चापवदति हि ॥ १८ ॥ अत्र पूर्वपक्षे पारित्राज्याभाबाद् ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः, सिद्धान्ते तत्सद्भावात् तत्सिद्धिरिति फलभेदः । अत्र यत्याश्रमो विषयः । स किमस्ति न बेति विशये जैमिनिराचार्य आह -नास्ति यत्याश्रमः विध्यभावात् । 'त्रय' - १. 'म्भवमित्या' खपुस्तके पाठ:.