तृतीयाध्याये चतुर्थः पादः । १४५ इत्यादिश्रुतौ तु पैरामर्शम् (?) अनुवादमात्रमवगम्यते, न विधिः । अत इयं श्रुतिर- चोदना लिङादिशून्या, चकाराद् ब्रह्मसंस्थास्तुतिपरा च । एवं चान्यपरया श्रुत्या न यत्याश्रमसिद्धिः । किञ्च 'वीरहा वा एष देवानां योऽग्निमुद्वासयते' इत्याद्या श्रु- तिरग्न्युद्वासप्रधानं यत्याश्रममपवदति हि यस्मात् तस्मान्नास्ति यत्याश्रम इति पूर्वः पक्षः ॥ १८ ॥ 9 सिद्धान्तस्तु - अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ पारिवाज्यमनुष्ठेयं भगवान् बादरायणो मन्यते । कुतः, साम्यश्रुतेः । ‘त्रयो धर्मस्कन्धा' (छा. २-२३- १) इत्यादिश्रुतावितराश्रमाणां श्रुत्यन्तरविहितानामेतद्वा- क्यानुवाद्यगार्हस्थ्येन साम्यश्रवणादित्यर्थः । ततश्चाश्रमचतुष्टयानुवादेन ब्रह्मसंस्थो - स्तुतिपरादपि वाक्यात् प्रतीयमानाश्रमाः सिध्यन्ति । नच ‘वीरहे’त्यादिश्रुतिवि- रोधः, तस्याः श्रुतेरज्ञानादग्न्युद्वासनोद्युक्ताहिताग्निविषयत्वादिति फलितार्थः॥ १९ ॥ यद्वा- MODUND BERAN विधिर्वा धारणवत् ॥ २० ॥ अस्मिन् वाक्य आश्रमाणां विधिरेव, नानुवादः । नचानेकाश्रमविधाने वा- क्यभेदः स्यादिति साम्प्रतम्, अपूर्वत्वेनाश्रमाणां विधेरावश्यकत्वेन वाक्यभेदस्येष्ट- त्वात् । एकवाक्यताप्रतीतावप्यपूर्वार्थविधौ दृष्टान्तो धारणवद्, 'अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति' इत्यत्र स्रुग्दण्डादधस्तात् समिद्धारणवि- ध्येकवाक्यताप्रतीताबप्युपरिधारणस्यापूर्वत्वा देकवाक्यताभङ्गेन विधिर्यथा कल्पित स्तथेहापीत्यर्थः । वस्तुतस्त्वस्मिन् वाक्ये पारिव्राज्यमेव विधीयते, आश्रमत्रयमनू- द्यानित्यफलत्वेन तन्निन्दया ब्रह्मसंस्थत्वस्यैव नित्यफलत्वेन स्तूयमानत्वाद्, यत् स्तूयते तद्विधेयमिति न्यायात् । न च ब्रह्मसंस्थत्वस्य गृहस्थादीनां सम्भवाद् इति साम्प्रतं, तेषां स्वकर्मासक्ततया ब्रह्मसंस्थत्वायोगात् । परिशिष्यमाणः परित्रा- डेव ब्रह्मसंस्थ इत्यस्मिन् पक्षे न वाक्यभेदः । तस्मात् सर्वकर्मपरित्यागलक्षणस्य पारिव्राज्यस्य प्रामाणिकत्वाद्विद्यायाः स्वतन्त्रपुरुषार्थसाधनत्वं सिद्धम् ॥ २० ॥
- ३ स्तुतिमात्राधिकरणम्
2 पूर्व यथानुष्ठेयाश्रमसाम्यश्रुतेः पारित्राज्यस्यानुष्ठेयत्वं प्रतिष्ठापितं, तद्वद् १. 'परामर्शः ' 'स्यात्. २. 'स्थाश्रुति' कपुस्तके पाठः,