पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये चतुर्थः पादः । १४७ पारिप्लवशब्देनोच्यते, तदर्था एवाख्यायिका इति चेदिति पूर्वः पक्षः । सिद्धान्त- स्तु न पारिलवार्थाः । कुतः, विशेषितत्वात् । 'पारिलवमा चक्षीते'त्युपक्रम्य 'मनुर्वै- वस्वतो राजे' त्यादिवाक्यशेषे कासाञ्चिदेवाख्यायिकानां पारिप्लवशेषत्वेन विशेषित- त्वादित्यर्थः ॥ २३ ॥ ननु तर्हि किमर्था इमा आख्यायिका इत्याशङ्कय सन्निधिवलाद्विद्यार्थ इत्याह- तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥ तथा चोक्तयुक्त्या पारिप्लवार्थत्वाभावे सति सन्निधिबलाद्विद्यास्तुत्यर्थत्वमा- ख्यायिकानां युक्तम् । कुतः, एकवाक्यतोपबन्धात् । सन्निहिततत्तद्विद्यैकवाक्यत्व- दर्शनादित्यर्थः ॥ २४ ॥

  • ५ अग्नीन्धनाधिकरणम्

पूर्व यद्वदाख्यायिकानां विद्याशेषत्वेनापेक्षा, तद्वद्यज्ञादिकर्मणामपि फले विद्याशेषत्वेनापेक्षास्त्विति दृष्टान्तसङ्गत्येदमाह - www अत एव चााग्नीन्धनाद्यनपेक्षा ॥ २५ ॥ पुरुषार्थाधिकरणफलरूपत्वादस्य तत्रोक्तं फलं द्रष्टव्यम् । ब्रह्मविद्या किं स्वफले मोक्षे जनयितव्ये सहकारित्वेन यज्ञादिकर्माण्यपेक्षते न वेति सन्देहे अपे- क्षत इति पूर्वः पक्षः । सिद्धान्तस्तु अत एवाद्याधिकरणोक्तात् स्वतन्त्र पुरुषार्थ - त्वादेव ब्रह्मविद्याया अग्नीन्धनाद्यनपेक्षा । अग्नीन्धनशब्देन स्वस्वाश्रमविहितानि कर्माणि लक्ष्यन्ते । तथा च मोक्षे न कर्मापेक्षा रजतभ्रमनिवृत्तौ शुक्तिज्ञानस्येवे- त्यर्थः ॥ २५ ॥

  • ६ सर्वापेक्षाधिकरणम् *

यथा पूर्व ब्रह्मविद्यायाः प्रमात्वाच्छुक्तिज्ञानस्येव स्वफले कॅर्मानपेक्षत्वम- भाणि, तथा स्वोत्पत्तावपि कर्मानपेक्षा प्रमात्वादेवेति दृष्टान्तसङ्गत्येदमाह-- सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ अत्र पूर्वपक्षे ज्ञानार्थं यज्ञाद्यनुष्ठानाभावः, सिद्धान्ते तदनुष्ठानावश्यम्भाव १. 'वशेषेण वि' कपुस्तके पाठ:. २. 'यजना' कपुस्तके पाठ:. ३. 'ति बाक्यार्थ' कपुस्तके पाठ:. ४. 'कर्मानपेक्षैत्यभा' खपुस्तके पाठ: ५. 'थैवोत्प' कपुस्तके पाठः.