तृतीयाध्याये चतुर्थः पादः । दीनां श्रुतौ स्मृतौ च दर्शनादित्यर्थः ॥ ३६ ॥ अपि च स्मर्यते ॥ ३७ ॥ १५१ संवर्तप्रभृतीनामनाश्रमिणामपि योगित्वं स्मर्यंत इत्यर्थः ॥ ३७ ॥ नन्वना श्रमिणां विद्याहेतुकर्माभावान्न तत्राधिकार इत्यत आह - विशेषानुग्रहश्च ॥ ३८ ॥ अनाश्रमिणामपि रैक्वादीनां जपोपवासदेवताराधनादिभिः कर्मविशेषैर्ज्ञानहे- तुभिरस्ति विद्यायामनुग्रह इत्यर्थः ॥ ३८ ॥ नन्वना श्रमिणामपि जपादिनैव यदि विद्या सिद्ध्येत्, तर्हि आश्रमित्वं व्यर्थ स्याद् । अत आह- www.ba अतस्त्वितरज्ज्यायो लिङ्गाञ्च ॥ ३९ ॥ अतस्त्वना श्रमित्वादितरदाश्रमित्वं ज्यायः शीघ्रमेव विद्यासाधनम् । कुतः, ‘तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च' (बृ. ४-४-९) इति श्रुतौ पुण्यकृत्त्वविशेष- णरूपश्रुतिलिङ्गाच्चेत्यर्थः ॥ ३९ ॥
- १० तद्भूताधिकरणम्
पूर्व यथा अनाश्रमिणां कर्मणो विद्याहेतुत्वमुक्तं तथोत्तमाश्रमात् पूर्वाश्रमं प्राप्तस्य कर्मणां विद्याहेतुत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह - तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥ अत्र पूर्वपक्षे आश्रमज्यायस्त्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । उ- तमाश्रमात् पूर्वाश्रमं प्राप्तस्य कर्म विद्याहेतुर्न वेति सन्देहे विद्याहेतुरिति पूर्वः पक्षः। सिद्धान्तस्तु तद्भुतस्य प्राप्तोत्तमाश्रमस्यातद्भाव उत्तमाश्रमात् प्रच्युतिः कथमपि न सम्भवतीति जैमिनेरप्याचार्यस्य सम्मतम् | अपिशब्देन भगवतो बादरायणस्य सम्मतमेवेति दर्शितम् । कुतः, नियमातद्रूपाभावेभ्यः ‘अरण्यमियादिति पदं ततो न पुनरेयादि’ति नियमः, प्रत्यवरोहबोधकश्रुत्यभावोऽतद्रूपम्, शिष्टाचारा- भावोऽभावः, तेभ्यः । तस्मात् प्रच्युतेरप्रामाणिकत्वान्न प्रच्युतस्य कर्म विद्याहेतु- रिति सिद्धम् ॥ ४० ॥ १. 'कुतः' इत्येतदुत्तरं 'लिङ्गाच' इति पठनीयं भाति,