पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां

  • ११ आधिकारिकाधिकरणम् *

यथा पूर्वं प्रच्युतस्य कर्म न विद्याहेतुरित्युक्तं, तथा प्रच्युतस्यापि कृत- प्रायश्चित्तस्य कर्म न विद्याहेतुरिति दृष्टान्तसङ्गत्येदमाह- न चाधिकारिकमपि पतनानुमानात् तदद्योगात् ॥ ४१ ॥ अत्र पूर्वपक्षे कृतप्रायश्चित्तस्य कर्म न ज्ञानहेतुः, सिद्धान्ते तद्धेतुरिति फ लभेदः । प्रमादात् प्रच्युतस्य किं प्रायश्चित्तमस्ति न वेति सन्देहे आधिकारिकम- प्यधिकारलक्षणसिद्धं गर्दभालम्भनरूपप्रायश्चित्तमाधिकारिकम् तदपि नैष्ठिक- स्यावकीर्णिनो नैवास्ति । कुतः, पतनानुमानात् । १५२ ु 'आरूढो नैष्ठिकं धर्मे यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा' || इत्यनिवर्त्यपातित्य श्रुत्यनुमापकस्मरणात् तस्य प्रायश्चित्तस्यायोगादिति पूर्वः पक्षः || ॥ ४१॥ सिद्धान्तस्तु - उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥ नेदं महापातकं, येन प्रायश्चित्तं न स्याद्, अपि त्वेके आचार्या उपपद- पूर्वमेवेदं पातकं मन्यन्ते । अत उपकुर्वाणस्येव नैष्ठिकस्याप्युक्तप्रायश्चित्तसद्भाव- मिच्छन्ति, उभयोर्ब्रह्मचारित्वे सत्यवकीर्णित्वाविशेषाद् अशनबद्, यथा ब्रह्म- चारिणो मधुमासांशिनो व्रतलोपः पुनः संस्कारश्च तद्वत् । तस्मात् प्रायश्चित्तस- द्भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे 'समा विप्रतिपत्तिः स्यात्' (जै. १-३-८) 'शास्त्रस्था वा तन्निमित्तत्वाद्' (१-३-९) इति । प्रायश्चित्ताभावस्मरणं तु यत्नगौर- वार्थमिति व्याख्यातव्यम् । इत्थं वानप्रस्थस्य महाकक्षाभिवर्धनं प्रायश्चित्तम् । यतेस्तु स्वशास्त्रसंस्कार इति बोध्यम् ॥ ४२ ॥ १२ बहिरधिकरणम् * पूर्वं यथा प्रच्युतस्य प्रायश्चित्तेनैव शुद्धत्वात् तत्कृतं कर्म विद्यासाधनमि- त्यवादि, तथा कृतप्रायश्चित्तेन सह शिष्टाचाररूपं कर्म विद्यासाधनं भवत्विति दृष्टान्तसङ्गत्येदमाह--