ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां किञ्च - श्रुतेश्च ॥ ४५ ॥ 'यां वै काञ्चन यज्ञे ऋत्विज आशिषमाशासत इति यजमानायैवैतामाशि - षमाशासत इति होवाच' इति श्रुतेः ऋत्विकर्तृकस्योपासनस्य यजमानगामिफल- त्वमवगम्यत इत्युपासनानि ऋत्विकर्तृकाणीति सिद्धम् ॥ ४६ ॥
- १४ सहकार्यन्तरविध्यधिकरणम् *
पूर्व यथा 'यां काञ्चन यज्ञ' इत्यादिवाक्यशेषादुद्गीथायुपासनस्यार्त्विज्य- निर्णयः, तद्वद् ‘अथ ब्राह्मण' (बृ. ३-१-१) इत्यादिविधिविधुरवाक्यशेषान्मौन- स्याविधेयत्वनिश्चय इति दृष्टान्तसङ्कत्येदमाह- सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥ अत्र पूर्वपक्षे मौनस्यानुष्ठेयत्वासिद्धिः, सिद्धान्ते ज्ञानं प्रत्यन्तरङ्गैस्य तस्य तत्सिद्धिरिति फलभेदः । बृहदारण्यके श्रूयते- 'बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः' (३-५ १) इति । तत्र किं मौनं विधीयते न वेति सन्देहे नेति पूर्वः पक्षः, सिद्धान्तस्तु फलभूतसाक्षात्कारे श्रवणाद्यपेक्षया सहकार्यन्तरस्य मौनस्य निदि- ध्यासनाख्यस्य विधिराश्रयितव्यः, अपूर्वत्वात् । ननु 'गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमि'त्यत्र मौनशब्दस्य पारिवाज्ये प्रयोगदर्शनात् कथमत्र मौनं निदिध्या- सनं स्यादत आह तृतीयं श्रवणाद्यपेक्षया निदिध्यासनमेवात्र मौनम् विधेयम् स्मृतावितराश्रमसमभिव्याहारान्निदिध्यासनप्रधानं पारित्राज्यं मौनशब्देन लक्ष्यत इत्यविरोधः । ननु कस्य मौनविधिरित्यत आह - तद्वतः विद्यावतः, 'विदित्वे'ति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वात् । ननु सूक्ष्मवस्तुसाक्षात्कारे निदिध्यासनस्य प्राप्तत्वाद्विधिर्निरर्थक इत्यत आह - पक्षेण । यस्मिन् पक्षे भेददर्शनप्राप्तिस्तेन पक्षेण प्राप्त्यभावाद्विधिरर्थवानेव । ननु ब्रह्मपरवाक्ये कथं विधिरित्याशङ्कय दृष्टा- न्तमाह – विध्यादिवत् विधेरादिर्विघ्यादिः प्रधानविधिः, तद्वद्, यथा दर्शपूर्ण- मासप्रधानपरे वाक्ये अन्वाधानादेरङ्गजातस्य विधिस्तद्वन्मौनस्येत्यर्थः ॥ ४७ ॥ नन्वेवं श्रवणादिप्रधाने कैवल्याश्रमे श्रुतिसिद्धे कस्माच्छान्दोग्ये 'अभिस- मात्रृत्य कुडुम्बे' (छा. ८-१५-१) इति गृहिणोपसंहारः । तत्राह - १. 'अभूतस्य त' ख. पाठः, २. 'त्वेति ब्रह्मप' ख. पाठः, -